SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ -378 : ३९.५] विरहवज्जा 376) अज्जं चिय तेण विणा इमीइ आयंबधवलकसणाई । जच्चंधमोत्तियाइ व दिसासु घोलंति नयणाई ॥३॥ 377) अज्जं गओ त्ति अजं गओ त्ति अज्ज गओत्ति लिहिरीए । पढम च्चिय दियहृद्धे कुड्डो रेहाहि चित्तलिओ ॥ ४ ॥ 378) अवहिदियहागमासंकिरीहि सहियाहि तीइ लिहिरीए । दो तिन्नि तह च्चिय चोरियाइ रेहा फुसिज्जंति ॥५॥ पूर्व नगरनार्यस्तद्पदिदृक्षया लालसाः सत्यो यत्र यत्र गमनागमनं स मप्रियो विधत्ते स्म तत्र तत्रैव रथ्यामुखदेशे देवकुलचत्वरेष्वादावेवागत्यास्थुः । इदानीं तु तस्मिन् प्रोषिते महृदयेन साकं शून्यान्यभूवन्निति निजपुरुषरूपसौभाग्यप्रकटनोक्तिः ॥ ३७५ ॥ 376) [ अद्यैव तेन विनतस्या आताम्रधवलकृष्णे। जात्यन्धमौक्तिके इव दिक्षु घूर्णतो नयने ।। ] अथैव तेन विना दिक्षु धूर्णतो नयने । के इव । जात्यन्धमौक्तिके इव । कस्याः । एतस्याः। किंविशिष्टे नयने । आताम्रधवलकृष्णे। इति नयनसामीच्यम्'। मौक्तिकयोश्चेदमेव विशेषणं दोषप्रकटनाय । कोऽर्थः । तस्यास्तेन पत्या विना आरक्तसितासितप्रान्तमध्ये नयने सर्वत्र परिभ्रमतः, परं कापि न पश्यतः । मौक्तिकमपि कूटं त्यक्तं सत् सर्वत्र पतितं न कोऽपि गृह्णाति ।। ३७६ ।। ____377) [ अद्य गत इत्यद्य गत इत्यद्य गत इति लिखनशीलया। प्रथम एव दिवसाधं कुडयं रेखाभिश्चित्रितम् ॥ ] अद्यैव गतः, अद्यैव गतः, अधैव गत इति रेखा लिखनशीलया प्रथम एव दिवसार्धे मध्याह्न एव कुडयं रेखाभिश्चित्रितम् । अयं भावः । कस्याश्चिद्विरहासहनशीलाया नायक 'एतावत्सु दिवसेष्वागमिष्यामि लग्न' इति कृत्वागमत् । तस्मिन् गतवति तत्क्षणादेव एकैकस्य दिवसस्य भ्रान्त्या खटिकयाद्यैव गत इति परःसहस्रा रेखा मुहूर्त एव चकार । इत्यात्मनो विरहमोग्ध्यप्रकटनम् ॥ ३७७ ॥ 378) [ अवधिदिवसागमाशङ्कनशीलाभिः सखीभिस्तस्यां लिखनशीलायाम् । द्वे तिस्रस्तथैव चौरिकया रेखाः प्रोञ्छयन्ते ॥] तस्यां 1G, I नयनसामीप्यम् 2 G, I लग्नम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy