________________
१००
१६ वज्जालग्गं
[373 :३८.९
373) इह पंथे मा वच्चसु गयवइ भणियं भुयं पसारेवि । पंथिय पियपयमुद्दा मइलिज्जइ तुज्झ गमणेण ॥९॥
३९. विरहवज्जा [विरहपद्धतिः] 374) अज्जं चेय पउत्थो उज्जागरओ जणस्स अज्जेय ।
अज्जेय हलद्दीपिंजराइ गोलाइ तूहाई ॥१॥ 375) अज्जं चेय पउत्थो अज्जं चिय सुन्नयाइ जायाई।
रच्छामुहदेउलचच्चराइ अम्हं च हिययाई ॥२॥
वृषभ, सभग, वायमाणोऽपि यदि न तिष्ठसि. तदास्मभ्यं लक्ष्म्या वास: कमलं तस्य वासः पानीयं तद् दत्वा व्रजेति ।। ३७२ ।।
373) [ अस्मिन्पथि मा व्रज गतपतिकया भणितं भुजं प्रसार्य ।। पथिक प्रियपदमुद्रा मलिनी क्रियते तव गमनेन ॥] हे पथिक अस्मिन् पथि मा व्रजेति गतपतिकया भुजं प्रसार्य भणितम् । प्रियपदमुद्रा, गतस्य प्रियस्य चरणलाञ्छनं, तव गमनेन मलिनीकियते, प्रोयत इत्यर्थः । अयं भावः । गतस्य प्रेयसश्चरणमुद्रां पश्यन्ती जीवामीति वियोगिनीवाक्यम् ।। ३७३।।
374) [ अद्यैव प्रोषित उज्जागरो जनस्याद्यैव । अद्यैव हरिद्रापिञ्जराणि गोदावर्यास्तटानि ॥ ] अद्यैव प्रोषितोऽचैव जनस्योज्जागरोऽधैका हरिद्रापिञ्जराणि गोदावर्यास्तटानि । अयं भावः । काचन नारी तत्क्षणादेव प्रोषितं प्रियं दृष्ट्वा विरहासहत्वात् प्रलपितुमिदमारब्धवती । तस्मिन् मप्रिये प्रोषिते जनस्याद्योज्जागरो चौरभयत्वात् । तेन सुभटेन विना को नाम रक्षां करोति । अद्यैव हरिद्रापिञ्जराणि गोदावर्यास्तटानि । तस्मिन् सति सर्वा अपि नार्य आत्मवपूंषि हरिद्रापिञ्जराणि प्रत्यहं चक्रुस्तं कामुकाः । इदानीं च तस्मिन्प्रोषिते किमनेन हरिद्रारागेणास्माकमिति गोदावर्यां तत्क्षणादेव गत्वाक्षालयन्निति नदीतटपीतत्वम् । तूहं तटम् ॥ ३७४ ।।
375) [ अद्यैव प्रोषितोऽद्यैव शून्यानि जातानि । रथ्यामुख देवकुलचत्वराण्यस्माकं च हृदयानि ॥ ] अद्यैव प्रोषितोऽद्यैव शून्यानि जातान्यस्महृदयानि । न केवलं तानि रथ्यामुखदेवकुलचत्वराणि । अयं भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org