________________
पज्जालग्गं
[ 366 : ३८.१366) जइ वञ्चसि वच्च तुम को वारइःतुज्झ सुहव' जैतस्स ।
तुह गमणं मह मरणं लिहिय पसत्थी कयंतेण ॥२॥ 367) जइ वचसि वञ्च तुम एहि अवऊहणेण न हु कज्जं ।
पावासियाण मडयं छिविऊण अमंगलं होइ ॥ ३ ॥ 368) वसिऊण मज्झ हियए जीयं गहिऊण अज्ज चलिओ सि ।
सहवासहरविडंबण गंगम्मि गओ न सुज्झिहिसि ॥४॥ ____365) [ यदि व्रजसि व्रज त्वं को वारयति तव सुभग यातः । तव गमनं मम मरणं लिखिता प्रशस्तिः कृतान्तेन ।। ] हे (प्रिय), यदि व्रजसि व्रज त्वम् । को नाम वारयति सुभग गच्छतस्तव । अतः कारणात् त्वद्गमनं मम मरणम् इति प्रशस्तिलिखिता कृतान्तेन । त्वयि गते क्षणमपि न जीविष्यामीति भावः ।। ३६६ ॥
___367) [ यदि व्रजसि व्रज त्वम् इदानीमवगृहनेन न खलु कार्यम् । प्रवासिनां मृतकं स्पृष्ट्वामङ्गलं भवति ॥] हे प्रिय यदि व्रजसि तदा व्रज त्वम् । इदानीमवगृहनेन न खलु कार्यम् । किमिति । प्रवसतां मृतकं स्पृष्ट्वामङ्गलं भवति । मृतकस्पर्शी ह्यनिष्टाय, विशेषतः प्रवसतः। अयं भावः । तव गमने मम प्राणा गता इव वर्तन्ते। अतो मृतामिव मां मा स्पाक्षीः । किमुक्तं भवति। यदि मदिष्टमिच्छसि तर्हि मा यासीरिति ॥३६७ ।।
368) [ उषित्वा मम हृदये जीवं गृहीत्वाध चलितोसि । सहवासगृह विडम्बन गङ्गायां गतो न शोत्स्यसि ॥ ] हे प्रिय, मम हृदय उषित्वा जीवं गृहीत्वाध चलितोऽसि । रे सहवासगृह विडम्बन गङ्गायामपि गतो न शुद्धिष्यसे (? शोत्स्यसि )। अन्योऽपि यः कापि वृक्षादौ तिष्ठति तत्र च कंचित्कालमुषित्वा पश्चात्तस्योपद्रवादिकं विधाय यदि याति, तदा सहवासगृहस्य विडम्बनं त्रोटनादिकं कुर्वन् पापी भवति । स च गङ्गायामपि गतः कृतप्रायश्चित्तोऽपि न शुध्यति । तथा त्वमपि महृदयवासमासाचेदानीं जीवं गृहीत्वाध चलितः कुतः कृतस्नानोऽपि शुद्धि प्राप्स्यसि । तस्मान्मां मा त्याक्षीरिति ।। ३६८।।
1 Gसुहय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org