________________
" -365:३८.१] पवसियवजा 363) माणं हु तरिम किज्जइ जो जाणइ विरहवेयणादुक्खं ।
अणरसियणिव्विसेसे किं कीरइ पत्थरे माणो॥१४॥ 364) उज्जग्गिरस्स तणुयत्तणस्स सुसियस्स दीहरुण्णस्स।
एयाण उरं दारुण पुत्ति माणं कुणिज्जासु ॥ १५ ॥
३८. पवसियवज्जा [प्रोषितपद्धतिः] 365) कल्लं किर खरहियओ पवसिहिइ पिओ त्ति सुव्वइ जणम्मि
तह वड भयवइ निसे जह से कल्लं चिय न होइ॥१॥
कस्य कृते कृतो मानः । यतः पादपतितो न गणितः, प्रियं भणन्नपि विप्रियं भणितो व्रजन्नपि न निरुद्ध इति । काचित्खण्डिता प्रातरागतं प्रियं दृष्ट्वा मानमवललम्बे । तां च मानवतीमवलोक्य " प्रिये प्रसीद, नाहं भूयोऽप्येवं करिष्यामि " इति चरणयोः पतन वाचा निर्धाटितः ( निस्सारितः )। ततः सोऽपि मानं स्वीकृत्य निर्गच्छंस्तया दीर्घमानवत्या न निषिद्धः। पश्चाद् दुःसह विरहवेदनादूनमानसा सख्यागत्यैवमूचे ।। ३६२ ।।
363) [ मानः खलु तस्मिन् क्रियते यो जानाति विरहवेदनादुःखम् । अरसिकनिर्विशेषे किं क्रियते प्रस्तरे मानः ॥ ३६३ ।।]
364) [ उज्जागरस्य तनुत्वस्य शोषितस्य दीर्घरुदितस्य । एतेषामुरो दत्त्वा पुत्रि मानं कुर्याः ॥ ] हे पुत्रि, एतेषामुरो हृदयं दत्त्वा, एतास्वीकृत्येत्यर्थः। मानं कुर्या: । केषामित्याह । उज्जागरस्य, तनुत्वस्य, शोषितत्वस्य, दीर्घरुदितस्य ।। ३६४ ॥
365) [ कल्यं किल खरहृदयः प्रवत्स्य ति प्रिय इति श्रूयते जने। तथा वर्धस्व भगवति निशे यथा तस्य कल्यमेव न भवति ॥] किर किल श्रयते खरहृदयो निरनुकम्पः कल्लं प्रातरेव प्रवत्स्यति प्रिय इति श्रयते जने। अतः कारणाद् हे निशे रात्रि तथा वर्धस्व भगवति, यथा 'से' इति तस्य प्रातरेव न भवति। प्रियं प्रवत्स्यमानं श्रुत्वा दुःसहविरहवेदनापीडिता रात्रिमेवं प्रार्थयते ॥ ३६५ ॥
वल.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org