________________
वज्जालग्गं
[359:३७.१०
359) दढणेहणालपरिसंठियस्स सब्भावदलसुयंधस्स।
पेम्मुप्पलस्स माए माणतुसारो चिचय विणासो ॥१०॥ 360) मुय माणं माण पियं पियसरयं जाव वच्चए सरयं ।
सरए सरयं सुरयं च पुत्ति को पावइ अउण्णो ॥११॥ . 361) तुंगो थिरो विसालो जो रइओ माणपव्वओ तीए।
सो दइयदिठिवज्जासणिस्स घायं चिय न पत्तो ॥१२॥ 362) पायवडिओ न गणिओ पियं भणंतो वि विप्पियं भणिओ।
वच्चंतो न निरुद्धो भण कस्स कए कओ माणो ॥ १३॥
359) [ दृढस्नेहनालपरिसंस्थितस्य सद्भावदलसुगन्धस्य । प्रेमोत्पलस्य मातर्मानतुषार एव विनाशः ॥ ] प्रेमैवोत्पलं कमलं तत्क्षणादेव त्रुटनशीलत्वादतिकोमलत्वाच्च तस्य । हे मातः, मान एव तुषारो हिमं विनाशः विनाशकारी, दाहकत्वात् । अन्यदपि कमलं तुषारेण दह्यते । रूपकालंकारेण प्रेम्ण उत्पलसादृश्यं विशिनष्टि । किंविशिष्टस्य । दृढस्नेहनालपरिसंस्थितस्य, सद्भावदलसुगन्धस्य । अत्र गाथायां स्नेहप्रेम्णोरक्यार्थत्वात् ( ? एकार्थत्वात् ) चिन्त्यम् । अथवोभयोर्दम्पत्योर्मरणावसानः परस्परानुरागः प्रेम । स्नेहश्च दानमानाद्यादिना भवति ।। ३५९ ॥
____360) [ मुञ्च मानं मानय प्रियं प्रियसरका यावद्रजति शरद् । शरदि सरकं सुरतं च पुत्रि कः प्राप्नोत्यपुण्यः ॥] हे पुत्रि, मानं मुञ्च, प्रियं मानय, यावच्छरद्बजति । किमिति । यतः शरत्काले सुरतं सुरां च कोऽपुण्यः प्राप्नोति ।। ३६० ।।।
____361) [ तुङ्गः स्थिरो विशालो यो रचितो मानपर्वतस्तया । स दयितदृष्टिवनाशने_तमेव न प्राप्तः ॥] तया यो मानपर्वतो रचितः । किंविशिष्टः । तुङ्गोऽत्युचैः । स्थिरो दृढः । विशालो विस्तीर्णः । स मानपर्वतो दयितदृष्टिवज्राशनेर्घातं न प्राप्तः। दयितस्य दृष्टिदर्शनं स एव स्फोटकत्वाद्वजाशनिस्तस्य घातं न प्राप्तवान् । कोऽर्थः । यन्नायिका मानं रचितवती ( तत् ) तावत् , यावद्वल्लभो दृष्टिगोचरं नेयाय । आगते तस्मिन्काकनाशं नष्टः ।। ३६१ ॥
____ 362) [ पादपतितो न गणितः प्रियं भणन्नपि विप्रियं भणितः । ब्रजन्न निरुद्धो भण कस्य कृते कृतो मानः ।।] हे सखि, भण कथय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org