SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ -312 : ३३.१२] थणवजा 309) अमया मओ व्व समया ससि व्व हरिकरिसिरोव्व चक्कलया। किविणब्भत्थणविमुहा पसयच्छि पओहरा तुज्झ ॥९॥ 310) अव्वो न हुंति थणया मज्झ सरीरे सवत्तिणा जाया। आलिंगणे वि पत्ते दूरे वि पियं निवारेति ॥ १०॥ 311) थणजुयलं तीइ निरंतरं पि दळूण तारिसं पडियं । मा करउ को वि गव्वं एत्थ असारम्मि संसारे ॥११॥ 312) कह नाम तीइ तं तह सहावगरुओ वि थणहरो पडिओ। अहवा महिलाण चिरं हियए को नाम संठाइ ॥ १२॥ 309) [ अमृतमयाविव, समदौ ( समृगौ) शशीव, हरिकरिशिर इव वर्तुलौ । कृपणाभ्यर्थन विमुखौ प्रसृत्य क्षि पयोधगै तव ॥] हे प्रसृतिवदक्षिणी यस्याः सा प्रसृत्यक्षी, तस्याः संबोधनं, हे प्रसृत्य क्षि, तब स्तनौ शीतलत्वादमृतमयाविव । समदौ समृगौ शशिवत् । हरिकरिसिर व्व इन्द्रहस्तिकुम्भावित्र चक्कलया विस्तीर्णौ । कृपणाभ्यर्थन विमुखौ ॥ ३०९॥ 310) [ अहो न भवतः स्तनौ मम शरीरे सपत्नौ जाती। आलिङ्गनेऽपि प्राप्ते दूरेऽपि प्रियं निवारयतः ।। ] अव्वो दुःखसूचनायां निपातः । अहो स्तनावेतौ न भवतः । किन्तु एतौ सपत्नीवज्जाती। किमिति । आलिङ्गनेऽपि प्राप्ते दूरेऽपि प्रियं निवारयतः । अयमभिप्रायः । कठिनोच्चविस्तीर्णकुचत्वाद्गाढालिङ्गन तस्या न संभवतीति ॥३१०॥ 311) [ स्तनयुगलं तस्या निरन्तरमपि दृष्ट्वा तादृशं पतितम् । मा करोतु कोऽपि गर्वमत्रासारे संसारे ॥] तस्याः स्तनयुगलं तादृशं लोकोत्तरं निरन्तरतिघनमपि पतितमवलोक्य मा करोतु कोऽपि गर्वमस्मिन्नसारे संसारे ॥ ३११ ।। ___ 312) [ कथं नाम तस्यास्तत् तथा स्वभावगुरुरपि स्तनभरः पतितः । अथवा महिलानां चिरं हृदये को नाम संतिष्ठति ॥] कथं नाम तत् , तथा स्वभावगुरुरपि तस्याः स्तनभरः पतितः । अथवा महिलानां हृदये चिरं को नाम तिष्ठति । यत्र निजाङ्गादप्युत्पन्नौ कुचौ न तिष्ठतस्तत्रान्यस्य का कथा । बहुतरं कालं हृदये प्रेम्णा कमपि न धारयन्ति मृगाक्ष्यः ॥ ३१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy