________________
--204 : २२.१]
वाहवजा 202) मा जाणह जह' तुंगत्तणेण पुरिसाण होइ सोंडीरं ।
मडहो वि मइंदो करिवराण कुंभत्थलं दलइ ॥३॥ 203) बेण्णि वि रण्णुप्पन्ना बज्झंति गया न चेव केसरिणो। संभाविज्जइ मरणं न गंजणं धीरपुरिसाणं ॥४॥
.. २२. वाहवजा [व्याधपद्धतिः] 204) एक्कसरपहरदारियमाइंदगइंदजुज्झमाभिडिए।
वाहि न लजसि नञ्चसि दोहग्गे पायडिजंते ॥१॥ near.
202) मा जानीत यया तुङ्गत्वेन पुरुषाणां भवति शौण्डीर्यम् । लघुरपि मृगेन्द्रः करिवराणां कुम्भस्थलं दलयति ।। ] पुरुषाणां तुङ्गत्वेन शौण्डीयं बलं भवति इति मा स्म जानीत । तुङ्गत्वेन न किमपि सिध्यति । मृगेन्द्रो लघुरपि करिवराणां हस्तिराजानां कुम्भस्थलं दारयति । केवलं तेज एव कारणं न तूच्चस्त्वम् । मडहो लघुः । देशीयपदमिदम् । अग्रेऽपि वक्ष्यति मालतीपद्धतौ यथा “मडहा मालइकलिया" (गाथा २३०) इति ॥ २०२।।
203) [ द्वावप्यरण्योत्पन्नौ बध्यन्ते गजा न चैव केसरिणः । संभाव्यते मरणं न कलङ्को धीरपुरुषाणाम् ।। ] बध्यन्ते गजा न चैव केसरिणः । उभयेऽपि किंविशिष्टाः । अरण्योत्पन्नाः । यतो मरणमेव संभाव्यते न गंजन विगोपकं धीरपुरुषाणाम् ।। २०३ ।।
___204) [ एकशरप्रहारदारितमृगेन्द्रगजेन्द्रयुद्धे प्रवृत्ते । व्याधि न • लज्जसे नृत्यसि दौर्भाग्ये प्रकट्यमाने ।। ] एकशरप्रहारदारितमृगेन्द्रगजेन्द्रयुद्धे प्रवृत्ते, हे व्याधि व्याधवनिते, न लज्जसे, यन्नृत्यसि । यतः दौर्भाग्ये प्रकटीक्रियमाणे। अयं भावः । एकशरप्रहारपातितसिंहगजं भर्तारमवलोक्य शौर्यवतो वनितास्मीति गर्वायमाणा व्याधवधूननत । तां च नृत्यन्ती समवलोक्य तत्सखी ब्रूते। हे मढे, त्वत्पतिश्चेत् त्वय्यासक्तो भवेत् ततः किं, बहुभिरपि शरप्रहारैर्हरिणं हन्ति । अत एव त्वय्यननुरक्तत्वाच्छक्तिक्षयाभावे गजेन्द्रमृगेन्द्रावकेनैव शरेण जघान । अतस्तव नर्तनं निजदौर्भाग्यप्रकटनाय प्रत्युतेदमिति। प्राकृते पहरपहारौं शब्दौ द्वावपि भवतः ।। २०४ ।।
1 B, C,G, I, Laber जई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org