________________
५६
वज्जालगं
205) कत्तो तं रायघरेलु विलसियं जं घरम्मि वाहस्स । गयकुंभवियारिय मोत्तिएहि जं जंगलं किणइ ॥ २ ॥ 206) अज्ज कयत्थो दियहो वाहवहू रूवजोव्वणुम्मइया । सोहग्गं धणुरुपच्छलेण रच्छासु विक्खिरइ ॥ ३ ॥ 207) ओ खिप्पर मंडलमारुएण गेहंगणाउ वाहीए । सोहग्गधयवडाइ व्व धणुर ओरुंपरिछोली ॥ ४ ॥ 208) जह जह व ंति थणा तह तह झिजंति पंच वत्थूणि । मज्झं पर कोयंडं पल्लिजुवाणा सवत्तीओ ॥ ५ ॥
[ 205 : २२.२
205) [ कुतस्तद्राजगृहेषु विलसितं यद्गृहे व्याधस्य । गजकुम्भविदारित मौक्तिकैर्यज्जांगलं क्रीयते ।। ] कुतस्तद्राजगृहेषु विलसितं यद् गृहे व्याधस्य वर्तते । कथम् । यद्गजकुम्भविदारितमौक्तिकैरुपलक्षितं मांसं क्रीयते ॥ २०५ ॥
206) [ अद्य कृतार्थो दिवसो व्याधवधू रूपयौवनोन्मत्ता | सौभाग्यं धनुरुल्लिखनच्छलेन रथ्यासु विष्किरति ।। ] अथ कृतार्थी दिवसो व्याधवधू रूपयौवनोन्मादिता सौभाग्यं धनुरुल्लिखनव्याजेन रथ्यासु विस्तृ-णोति । अयं भावः । तस्यामासक्तः शक्तिक्षयात् प्रत्यहं धनुस्तक भर्ता । तस्य च त्वगुत्करं कचवरं रथ्यायां निक्षिपति तद्वधूः । ज्ञायते किलात्मीयं सौभाग्यं लोकेषु दर्शयति ।। २०६ ॥
/
207) [ अहो क्षिप्यते मण्डलमारुतेन गेहाङ्गणाद्व्याधवध्वाः । सौभाग्यध्वजपटानी धनूरजस्त्वक्पक्तिः ॥ ] ओ अहो मंडलमारुरण मण्डलीवातेन धनूरजस्त्वक्पक्तिः क्षिप्यत उड्डीयते । कस्मात् । गेहाङ्गणात् । सौभाग्यध्वजपताकेत्र व्याधवध्वाः ।। २०७ ॥
208) [ यथा यथा वर्धेते स्तनौ तथा तथा क्षीयन्ते पञ्च वस्तूनि । मध्यं पतिः कोदण्डः पल्लियुवानः सपत्न्यः ॥ ] यथा यथा वर्धेते स्तनौ व्याधवध्वास्तथा तथा खिद्यन्ते ( ? क्षीयन्ते ) पञ्च वस्तूनि । कानि तानीत्याह । मध्यमुदरम् । पतिः । कोदण्डः । पल्लियुवानः । सपत्न्य: ॥ २०८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org