________________
-198 : २०.९]
गथवजा 194) जायासुयविरहविसंतुलस्स जूहाहिवस्स विझम्मि ।
ते सरसपल्लवा सलईइ विसकवलसारिच्छा ॥५॥ 195) गरुयछुहाउलियस्स य वल्लहकरिणीसुहं भरंतस्स।
सरसो मुणालकवलो गयस्स हत्थे च्चिय विलीणो॥६॥ 196) तह नीससियं जूहाहिवेण चिरविलसियं भरतेण ।
करगहियं तिणकवलं हरियं जह झत्ति पज्जलियं ॥७॥ 197) विरहपलित्तो रे वरगहंद मा भंज सयलवणराई ।
उम्मूलिए वि विझे विरहावत्था तह च्चेय ॥८॥ 198) जूहाओ वणगहणं गहणाउ सरं सराउ गिरिसिहरं।
सिहराहितो पुहवि निएइ हत्थी पियाविरहे॥९॥
194) [जायासुतविरह विसंष्ठुलस्य यूथाधिपतेर्विन्ध्ये। ते सरसपल्लवाः सल्लक्या विषकवलसदृक्षाः ॥] विन्ध्ये यूथाधिपतेस्ते सरसपल्लवाः सल्लक्या विषकवलसदृक्षाः । कारण विशेषणद्वारेणाह। किंविशिष्टस्य यूथाधिपतेः । जायासुतविरह विसंष्ठुलस्य ॥ १९४ ॥
195) [गुरुक्षुधाकुलितस्य च वल्लभकरिणीसुखं स्मरतः। सरसो मृणालकवलो गजस्य हस्त एव विलीनः ॥ ] गजस्य सरसो मृणालकवलो हस्त एव विलीनो हस्त एव स्थितः । न तु भक्षितः । कारणमाह । वल्लभकरिणीसुखं स्मरतः। कदाचिद् अक्षुधितो भवेत् । गरुयछुहाउलियस्स वि बृहत्क्षुधाकुलितस्यापि ।। १९५॥
196) [तथा निःश्वसितं यूथाधिपेन चिरविलसितं स्मरता। करगृहीतं तृणकवलं हरितं यथा झटिति प्रज्वलितम् ॥ ] तथा निःश्वसितं यूथाधिपेन चिरविलसितं स्मरता, यथा करगृहीतं हरितमपि आर्द्रतृणकवलं झटिति प्रज्वलितम् ॥ १९६ ॥
.. 197) [ विरहप्रदीप्त रे वरगजेन्द्र मा भग्धि सकलवनराजीः । उन्मूलितेऽपि विन्ध्ये विरहावस्था तथैव ।। ] विरहप्रदीप्त रे वरगजेन्द्र मा भञ्जय सकलवनराजीः, यतो विन्ध्येऽप्युन्मूलिते विरहावस्था तथैव ।।१९७॥ . 198) [ यूथाद्वनगहनं गहनात्सरः सरसो गिरिशिखरम् । शिखरात्पृथिवीं पश्यति हस्ती प्रियाविरहे ।। ] हस्ती प्रियाविरहे यूथावन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org