________________
वजलाग्गं
[190:२०.१२०. गयवज्जा [गजपद्धतिः] 190) वियलियमरण गयजोव्वणेण हल्लंतदंतमुसलेण ।
अज्ज वि वणं सणाहं जूहाहिव पइ जियंतेण ॥१॥ 191) अज्ज वि संभरइ गओ मज्जंतो सरवरम्मि लीलाए ।
जं करिणिकरग्गुम्मूलिएण पहओ मुणालेण ॥२॥ 192) मा सुमरसु चंदणपल्लवाण करिणाह गेण्ह तिणकवलं ।
जा जह परिणमइ दसा तं तह धीरा पडिच्छंति ॥३॥ 193) मा झिज्जसु अणुदियहं करिणिविओएण मूढ करिणाह ।
सोक्खं न होइ कस्स वि निरंतरं एत्थ संसारे ॥४॥
190) [ विगलितमदेन गतयौवनेन चलहन्तमुसलेन । अधापि वनं . सनाथं यूथाधिप त्वया जीवता ॥] हे यूथाधिप, अद्यापि त्वया जीवता वनं सनाथं सस्वामि । “पइ मइ " इति त्वया मयेत्यर्थे । किंविशिष्टेन । विगलितमदेन, गतयौवनेन, चलद्दशनमुसलेन ॥ १९० ॥
191) [ अद्यापि संस्मरति गजो मज्जन् सरोवरे लीलया। यत् करिणीकरामोन्मूलितेन प्रहतो मृणालेन ॥] अद्यापि गजः संस्मरति । किमिति । यत् प्रहतो मृणालेन । किंविशिष्टेन । करिणीकरामोन्मूलितेन । किं कुर्वन् । सरोवरे लीलया मज्जन् ।। १९१॥
192) [ मा स्मर चन्दनपल्लवानां करिनाथ गृहाण तृणकवलम् । या यथा परिणमति दशा तां तथा धीराः प्रपद्यन्ते ॥] मा स्मर चन्दनपल्लवानां करिनाथ गृहाण तृणकवलम् । या यथा परिणमति दशा तां तथा धीराः प्रतीच्छन्ति । चन्दनपल्लवान् परित्यज्य प्राप्तानि तृणानि भक्षयेत्यर्थः ॥ १९२ ॥
193) [मा क्षीयस्वानुदिवसं करिणीवियोगेन मूढ करिनाथ । सौख्यं न भवति कस्यापि निरन्तरमत्र संसारे ।। ] हे मूढ करिनाथ, अनुदिवसं करिणीवियोगेन मा खिद्यस्व । सौख्यं न भवति कस्याप्यनवरतमत्र संसारे ॥ १९३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org