SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् तत्त्वप्रपञ्चनः- ततः किम् ? कनकचूड:- शृणु यत् । घोरैः खड्गप्रहारैः करकलितमुभौ खेटकं खण्डयन्तौ रक्षन्तौ पञ्चघातीं वपुषि नवनवं तेनतुः शस्त्रचित्रम् । उत्प्लुत्याथ द्विजेन्द्रः सपदि भुजमदाद्दक्षिणं राक्षसस्य प्रीतः कान्तां गृहीत्वा भुजगयुवतिभिर्गीतकीर्तिः समेति ।। ५३ ।। (स्रग्धरा) विजयेन्द्रः- (क्षणान्तस्तथैव प्रियया दत्तहस्तावलम्बः प्रविश्य अभितो निरीक्ष्य तत्त्वप्रपञ्चनं प्रति अङ्गुल्या कनकचूलं दर्शयन्) साधिते ऽस्मिन् कार्ये सर्वोऽप्यमीषां प्रभाव इति । (अत्र ११६ तमं पत्रं त्रुटितमस्ति ।) (उबुध्य तत्तादृशं दृष्ट्वा सानन्दम्) (चेटी ?) - ३२अहह महापहावो तत्तपवंचणस्स जो सव्वहा विहडियं पि एयं पुणोवि एवं संधेदि । (उपसर्प्य पादयोः पतति) खमिजदु मे सच्छंद भासिदाओ अवराहं । तत्त्वप्रपञ्चनः- (विहस्य) न कोऽप्यपराधस्ते केवलमज्ञानतैवापराध्यतीति । (वदन् पृष्ठं करेण स्पृशति ।) विजयेन्द्रः- प्रिये ! निशीथसमयः प्रवृत्तो वर्ततेऽतः सौधतलमलङ्क्रियताम् (इति - वदन् प्रियां हस्ते विधृत्य तत्त्वप्रपञ्चनेन समं सपरिवारः परिक्रामति, क्षणान्तः सोपानमलंकुर्वाणः सौधमधिरोहति । तत्त्वप्रपञ्चनः कोणान्तर्विजने समुपविश्य ध्याननाटितकेन बोधप्रदां देवतां प्रत्यक्षीकृत्य गुर्वादिष्टं निवेदयति ।) बोधप्रदा- तथेति प्रतिपद्य विजयाङ्गमञ्चति । (अत्र ११८ तमं पत्रं त्रुटितमस्ति ।). दवतमसविटंकान्निर्गता घोरकूपात् । ३२. अहह महाप्रभावः तत्त्वप्रपञ्चनस्य यः सर्वथा विघटितमपि एतत् पुनरपि एवं संदधाति । क्षाम्यतु मम स्वच्छन्दभाषिण्या अपराधम् । ६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy