SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् कारित्वेन कृतसकलजनचमत्कारत्वाद्वा यावत् चन्द्रमा यावत् शेषराजस्य मा लक्ष्मीः । यावत् अगस्य सुमेरोर्लक्ष्मीः तावदेव तता या विस्तृता कृतिः प्रकरणरूपा तस्यास्तता या मा तता माहाल्यं राजतां अशेषचन्द्रोज्ज्वलपरिपूर्णचन्द्रमसा तुल्या तता विस्तृता देविता क्रीडनशीला वियाता प्रगल्भा जायते हि अमूं कृतिं परिशीलयतां कविपुङ्गवानां वाचि चित्रे[त्ते]च प्रागल्भ्यम् किमर्थं तव मानदे पूजार्थं विदे ज्ञानार्थं च ॥ छ ॥ धवलयति सुधाभिर्यावदिन्दुस्त्रिलोकीं जनितजनसमृद्धी शेषराजाङ्गराजौ । कृतसकलविशेषौ नन्दतस्तावदेषा विलसतु जगति श्रीदेवचन्द्रस्य कीर्त्तिः ॥ ४९ ॥ (मालिनी) अपि च विद्याम्भोनिधिमन्थमन्दरगिरिः श्रीहेमचन्द्रो गुरुः सान्निध्यैकरतिर्विशेषविधये श्रीशेषभट्टारकः । - यस्य स्तः कविपुङ्गवस्य जयिनः श्रीदेवचन्द्रस्य सा कीर्तिस्तस्य जगत्त्रये विजयतां शार्दूललीलायितैः ॥ ५० ॥ इति श्रीदेवचन्द्रमुनिप्रणीतचन्द्रलेखाविजयप्रकरणे निर्वहणसन्धो महासिद्धिलाभो नाम पञ्चमोऽङ्कः ॥ छ ।। कलयति भुजगेन्द्रो मौलिना यावदुर्वी प्रमदमुकुलिताक्षा [स्ता] वदेते कवीन्द्राः । नवरसवसतिश्रीदेवचन्द्रप्रती [णी] त प्रकरणमधुधारां श्रोत्रपात्रैः पिबन्तु ।। ५१ ।। Jain Education International - (शार्दूलविक्रीडित्) १०० For Private & Personal Use Only (मालिनी) www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy