________________
चन्द्रलेखाविजयप्रकरणम्
[पञ्चमोऽङ्कः
सुभगनाग याग देविभाग हृदय याहि पाहि धेहि शं नः ||
बलवताऽपि ये न जीयन्ते तानपि खण्डयन्ति या प्रभा तया अग कठिनहृदये आगच्छ विशेषेण दिताः खण्डिताः नाथाः स्वामिनोऽपि यया सुभगनागया अतिशयवत् सौभाग्यसमन्विति]तया अगवत् सु[मे] रुशैलवत् परिदृढा देविनी विलसनशीला यका भा प्रभा तया कठिनानां हृदये कठिनहदयवत्सु वा इहीति पूर्वेण सम्बन्धः । राज च (स्व) तत्र स्वेन च रूपेण एवंविधप्रभया सह तेष्वागच्छ । तेऽपि तव प्रभावादस्माकं यत् सुखं तच्छालिनो यथा भवन्ति ।।
कठिना आत्माबहुमानित्वेन आराधने न यतन्ते पाषाणहृदयास्तु सत्त्वरहितत्वादज्ञानदिग्धत्वाच्च भवन्तमाराधयितुमशक्ता, न च त्वदाराधनं विनोत्तमं सुखमवाप्यते इति महत्व]दाराधनेनैव सर्वं जगत् सुखोपेतं विधेहि पाहि च जीवलोकमिति हि प्रसत्तिर्यथा तेषां तता विस्तृता तमा अज्ञानरूपा न भवति, नहि पूर्वं भवानेवंविध इति आह्लादकत्वपरिपूर्णकलत्व-अमृतमयत्व-प्रकाशत्व-मार्गदर्शित्वादिभिः चन्द्रमपि शेषयति लघूकरोति यः स चन्द्रशेषः स इव त्वं स्या इति निश्चिनोमि कथमन्यथा एवंरूप इति । महिषीरूपमिव महिषीवेयमाकृतिरितिवद्भिन्नक्रमेणैव सम्बन्धात् चन्द्रशेष इव त्वं हे आज्ञासिद्धयोगिन् अजितदेवेत्यादिविशेषेण विशिष्टया प्रभया सह मानिनाममानिनां च हृदये आगच्छ तत्रैव च राजस्वेति यथा तेऽपि अजिता नाथनाथाः सौभाग्यनिधयः प्रभास्वरा नित्यसुखशालिनश्च जायन्ते इत्याशास्महे ।। छ ।
[इति निष्कान्ताः सर्वे] अथ सुधाकलशश्लोकःयागयाग देविदेवि तात तात देव देव । शेष शेषि] राज राज चन्द्र चन्द्र मान मान ।। ४८ ॥ (अनुष्टुप्)
एकस्यां बाह्यपङ्क्तौ यागया वाक्षराणि द्वितीयपङ्क्तौ तात तावेति मध्यपङ्क्तौ षचन्द्रवेति । द्वितीयपङ्क्तौ ष राज स इति, अधस्तात् नेति मध्ये मा इति कलशमुखे विशिवि इति, मूर्ध्नि बुध्ने इति कलशस्थापना -
हे मानव मनोरपत्यविजयदेवेति उपलालनायां पुत्रत्वादद्- भुतक्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org