SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् ] तत्त्वप्रपञ्चनः- तत् प्रणम यथाक्रममेतान् । ( रत्नपुञ्जस्तथा करोति) (दविप्रभा पुत्रप्रणामानन्तरं गुरून् प्रणम्य अवनतदृष्ट्या तत्त्वप्रपञ्चनमभिनमन्ती बाष्पाकुललोचना भर्तृमुखमीक्षितुमशक्नुवती दूरे स्थित्वा समुपविशति) विजयेन्द्रः- (आत्मावबोधेन प्रत्यभिज्ञापितं पुत्रमालिड्य अङ्के उपवेशयति शिरसि चुम्बति च ।) वत्स ! राज्यं शासति किं त्वयीन्द्रसदृशे सर्वाः प्रजाः सुस्थिता ? निर्बाधः सकलोऽपि तापसजनः किं तप्यते स्वं तपः ? | भूदेवाः सततं मखेषु विबुधान् किं प्रीणयन्त्युद्यताः ? किं धर्मो जिनशासने स बलवान् संवर्द्धते सर्वतः ॥ ४० ॥ ( शार्दूल . ) (नेपथ्ये) सुखाय प्रभातसन्ध्या भवतु चक्रवर्ति श्रीरत्नपुञ्जाय । तथाहिधौते चन्द्रमरीचिसान्द्रसलिलैर्भास्वानयं भानुभिः कुर्वन् कुङ्कुमपपत्ररचनां प्राचीकपोलस्थले । सम्प्रत्यम्बरमञ्चति स भगवांस्तद्देवदेवार्चन व्यापारे दृढभक्तिनाऽपि भवता नाद्यापि किं यत्यते ? ।। ४१ ।। (शार्दूल.) J पुनस्तत्रैव । १४ एसो जहा दिणमणी सयलाण तेयं घित्तण झत्ति पयडे : महाभावः । एवं तुवं पि रिउरायबलं समि E दंसेसि निज्जिय कहं न नियप्पयावं || ४२ ॥ [चतुर्थोऽङ्कः (वसन्त.) विजयेन्द्र:- (समाकर्ण्य) भगवन् ! (भ) गवन् ! प्रभातसमयो वर्त्तते, तद्युष्माभिरपि मयाऽपि सम्प्रति गुरुचरणा दृष्टव्यास्तद्यथा करणीयम् (आलोच्य चक्रवर्ती १४. एष यथा दिनमणिः सकलानां तेजः गृहीत्वा झटिति प्रकटयति महाप्रभावम् । एवं तवापि रिपुराजबलं समृद्धं दर्शयसि निर्जित्य कथं न निजप्रभावम् ॥ Jain Education International ७९ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy