SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः) चन्द्रलेखाविजयप्रकरणम् मम त्वं च द्विजस्यास्य, त्वर तात्त्विकिदेवते ! । त्यक्त्वा येन प्रियामोहं, पथि न्याय्ये प्रवर्तते ।। ३३ ।। (अनुष्टुप्) (दवताञ्चितशरीरो ध्यानाद्विरम्य) विजयः- (तत्त्वप्रपञ्चनं प्रति-) ___वयस्य ! सर्वोऽपि कृतः किमयंपाद्योपचारविधिः ?। तत्वप्रपञ्चनः- एवमेव । विजयः- (पुरोऽवलोक्य)कथममी आत्मावबोधा गुरवः ? (विजयः साष्टाङ्गं प्रणमति) आत्मावबोधः- स्वस्ति भवते सपुत्राय च सकलत्राय च (अजितदेवेत्यादि मन्त्रं कर्णे निक्षिपति) विजयेन्द्रः-] (ससम्मदम् ।) धिक् सर्वं भवचक्रवर्तिविषयव्रातं क्षणे नश्वरं धिक् विद्याधरचक्रवर्तिपदविं(वी) ध्वंसो यदस्या अपि । एकः केवलमेष नित्यमुदितः ख्यातस्त्रिलोकीतले भूयाद् वाञ्छितसिद्धये मम परं युष्मप्रसादः सदा ॥ ३४ ।। (शार्दूल.) भगवन् ! कैः प्रकारैः श्रीमदजितबलां देवी प्रसाद्य तां महासिद्धिं समासादयिष्यामि, तत् कथ्यतामुपायः, प्रवणोऽस्म्येषः । आत्मावबोधः- वत्स ! विना भवन्तमितरस्य कष्टसाध्या महासिद्धिः तत्राप्यादि तस्तावन्मण्डलाधिष्ठात्री देवता प्रसादनीयास्ति ततस्तदुपदेशलाभेन भविष्यद्विघ्नौघविध्वंसे उत्तरसाधकत्वे स्वसुतं नियुज्य उत्तरकर्मव्यवसायिना भवितव्यम् । (कर्णे मन्त्रं निक्षिपति) विजयेन्द्रः- (तथेति प्रतिपद्य सोत्साहो मनसि निश्चयं बद्धवा तत्त्वप्रपञ्चनसंस्कृतभूमितले मण्डलान्तः समुपविश्य ध्यानं नाटयति वदति च ।) देवि देव नाथ याग याहि पाहि धेहि देवि | यात शेष देवि चंद्र चन्द्र देवि देव शेष नाथ यात याग देवि याहि पाहि धेहि || __ हे देवि अजितबले ! विदे-मम ज्ञानोत्पादनाय च सम्मुखी भव । त्वत्सम्मुखीभवनेन सर्वकामि(त)फलहेतुरयं चरुपाक लक्षणो योगः संसिध्यति । पूर्वमप्यदेवि क्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy