________________
चन्द्रलेखाविजयप्रकरणम्
[चतुर्थोऽङ्कः
निजदृष्टिः- (हस्ताञ्जलिमभिनीय) एवम् । (अनङ्गलेखमर्पयति) विजयेन्द्रः- (उन्मुद्र्य यावद् वाचयति तावद् दृशोर्बाष्पोत्पूरं करे च कम्पं नाटयति)
(अत्र १४४ तमं पत्रं त्रुटितमस्ति ।) मिन कि प्रियां ताम् (प्रकाशम्)
निजदृष्टे ! पृच्छ तत्त्वप्रपञ्चनं सम्प्रति यादृगवस्थाऽस्मासु वर्तते । तत्त्वप्रपश्चन:
नान्ते गुरूणां न पुनर्ममान्ते न वा रजन्यां न च वासरे वा । एकोऽथवाऽयं बहुभिर्वृतो वा तया विना न क्षणमेति सौख्यम् ||३०||
(उपजातिः) (तं तथा बाष्पपूरितलोचनपुटं दृष्ट्वा चन्द्रिका प्रति) अयि ! निजदृष्ट्याऽपि सहिता भवती प्रतियातु यथागतं त्यक्त्वा समस्तं
त्वरितमेव तत्रायातममुं जानीहि । (इति विसर्जयति) चन्द्रिका- युष्मदादेशः प्रमाणम् । (इत्युक्त्वा प्रणम्य निजदृष्ट्या सह निष्कान्ता) तत्त्वप्रपञ्चनः- (तथैव प्रियाप्रणिधानपरं निरीक्ष्य सनिर्वेदम्)
सर्वथा दुर्निवारोऽयं निबिडः प्रेयसीग्रहः । ___ यं विलोक्य ममाप्येति बोधो नात्मनि विक्लवे ॥ ३१ ॥ (अनुष्टुप्)
(ततः प्रविशति आत्मावबोधः) आत्मावबोधः- आदिष्टोऽस्मि पूज्यपादैर्मनोगतिसन्दिष्टेन यत् -
स ब्रह्मसूनुर्दयितावियोगजातव्यथां बिभ्रदनन्यसाध्यः । गत्वा त्वया तात्त्विकिदेवतायाः, समं च तेन प्रतिबोधनीयः ॥ ३२ ॥
(उपजाति) तदत्रैव तत्त्वप्रपञ्चनानुगतः किं स एवैषः (परिक्रम्यावलोक्य) अयि !
तत्त्वप्रपञ्चन ! किमित्युचितक्रियालोपः ? तत्त्वप्रपञ्चन:- (उद्धर्वमवेक्ष्य) किमात्मावबोधः ?
दिष्ट्या संजातं, गतं व्याकुलतया, मत्त(ः) ससम्भ्रममुत्थाय प्रणमति । सुहृवैधुर्यवैययान्नावगता भवन्तः, ततः क्षम्यता
मविनयोऽयम् । आत्मावबोधः- (विहस्य) न किञ्चिदत्र तवापराध्यति, । इत्युक्त्वा ध्यानं नाट्यति, प्रत्यक्षीकृत्य तात्त्विकी देवतामादिशति ।
७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org