SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् ततः प्रविशति बोधश्रीः] बोध श्रीः- प्रेषिताऽस्मि गुरुभिरुज्जयिन्यां महाराझ्या देविप्रभायाः समीपम् “त्वया तु तत्र गत्वा वैताढ्यादायातस्य विजयेन्द्रस्य भर्तुरागमनेन सा वर्धापनीया" | तत् मम प्रत्यहं गुवदिशप्रापणेन वैयग्र्यादात्मावबोधक्षणो न वर्तते, श्रमश्च महान् वपुषि, तदत्र अशोकतरुच्छायायां मुहूर्तमेकमुपविश्य श्रमापनोदं विदधामि (इत्युपविशति) प्रियविश्लेषसन्तापमध्वखेदातपभ्रमिम् ।। दृष्टमात्रो हरत्येष [अशोकः शोकनाशनः] ।। १ ॥ (अनुष्टुप्) ___ (इत्यशोकप्रथान्तः तदध्वश्रमापनोदं विदधत् निश्चितमिष्टागमजनितसुखमपि वितरिष्यति, तदैव सम्मुखमायान्ती मनोगतिं दृष्ट्वा सानन्दम्) अयि मनोगते ! कुतः सम्प्रत्यागम्यमानमास्ते । मनोगतिः- १ (स्वगतम्) कहमेसा बोधसिरी वयरक्खियाए दुदीयहिययं गुरूणं च महापसायभायणं, ता किं कारणमिहागमणे मुणिदव्वं, भोदु आलावाओ सव्वं पयडीहविस्सदि (सप्रश्रयम्) अज्जे बोहसिरी एसा मणोगई पणमंती दिट्ठीया संभाविजदु । (इति प्रणमति) बोधश्रीः- स्वस्ति भवत्यै, किं साधितगुवदिशा ? मनोगतिः- अध इं। बोध श्री:- तत्त्वप्रपञ्चनेन तेन तेनोपायेनाकृष्य समानीते विजयेन्द्रे पश्चात् कीदृशीमवस्थामभजच्चन्द्रलेखा यस्या वर्तमानायास्तद् गुर्वादिष्टमनुष्ठितम् । मनोगतिः- किं कहिज्जदि, सुणादु होदी, सविधवट्टिणीणं पियसहीणं पुरदो जं भणेदि । १. मनो. कथमेषा बोधश्रीः व्रतरक्षिताया द्वितीयहृदयं, गुरूणां च महाप्रसादभाजनं, तस्मात् किं कारणमिहागमने ज्ञातव्यं, भवतु, आलापतः सर्वं प्रकटीभविष्यति । आर्य एषा मनोगतिः प्रणमन्ती दृष्ट्या संभाव्यताम् । २. मनो. अथ किम् । ३. मनो. किं कथ्यते, शृणोतु भवती सविधवर्तिनीनां प्रियसखीनां पुरतः यद् भणति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy