________________
गाहाकोसो W202 १४७) अप्पच्छंदपहाविर दुल्लहलंमं जणं विमग्गंत ।
आयासवहेहि भमंत हियय कइया वि भज्जेिहिसि४७॥ W203 १४८) अहव गुण ञ्चिय लहुया अहवा अगुणन्नुभो हु सो लोगो । - अहव म्ह निग्गुणा बहुँगुणो हु अन्नो जणो तस्स ॥४८॥ मन्दस्नेहो यथा नोपालम्भयोग्योऽसि । आनन्त्याद् अपराधानाम् उपालम्भभाजनं न भवसि इत्यर्थः । किमत्र प्रमाणमित्याह । अच्छउ ता जणवाओ आस्तां तावदयं जनवादः, हिययं चिय अत्तणो तुह पमाणं हृदयमेव आत्मनस्तव प्रमाणं यदि उपाल भयोग्यो भवसीति ॥१४६॥
१४७) राघवदेवस्य । [आत्मच्छन्दप्रधावनशील दुर्लभलम्भं जनं विमार्गयत् । आकाशपर्भमत् हृदय कदाऽपि भक्ष्यसे ॥] काचिद् दुर्लभजनसंगमाशा सुखग्रहं ग्रहीतुं हृदयं प्रत्याह । हे हियय हृदय मप्पच्छंदपहाविर स्वच्छन्देन प्रधावनशील । अन्ये तु आत्मच्छन्दप्रधावित इति व्याचक्षते । यथा आत्मानं तथा अन्यमपि जनं जानासीत्यर्थः । दुल्लहलंभ जणं विमग्गंत दुर्लभलामं जनम् अभिलषत् । अत एव आयासवहेहिं भमंत आकाशपथैर्धाम्यत्, केणावि भज्जिहिसि केनापि भज्यसे (: भङ्क्ष्यसे)। यथा कश्चित् स्वैरविहारः दुर्लभलाभाशापिशाचिकागृहीतः आकाशपथेन भ्राम्यन् भज्यते तथा त्वमपीति । आकाशपथेनेति लोकोक्तिः, लोकातीतमार्गसंचरणे । एकत्र आकाशपथैः, अन्यत्र आयासपथैरिति योज्यम् । हृदयोपदेशः । आक्षेपोऽलंकार ॥१४७।।
१४८) प्रवरसेनस्य । [अथवा गुणा एव लघवः अथवा अगुणज्ञः खलु स लोकः । अथवा स्मो निर्गुणाः बहुगुणः खलु अन्या जनस्तस्य । काचित् समुचितसमयेऽप्यनागच्छति कान्ते अनेककल्पनया स्वगतमिदमाह । अहव गुण च्चिय लहुया अथवा गुणा एव(मम)लघवः, यत् सत्सु अपि १w. डज्झिहिसि; २w. गुणअण्णुओ ण; ३w. म्हि; ४w. वा बहुगुणवतो जणो तस्स.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org