________________
गाहाकोसो
[१.५०
W48 ५०) अन्नमहिलापसंग दें दिव्य कुणेसु मज्झै दइयस्स ।
पुरिसा इक्कंतरसा न हु दोसगुणे वियाणंति ॥५०॥ W49 ५१) थोयं पि न नोइ इमा मज्झन्हे उय सिरीसतललुक्का ।
__ आयव भएण छाही वि पहिय ता किं न वीसमसि ॥५१॥ गृहे गृहे पृच्छन्ती भ्राम्यति । किं पृच्छन्तो। आउच्छणजीयधारणरहर्स आउच्छणं आपृच्छनं पुनदर्शनाय प्रश्नः, तस्मिन् प्रणयिकृते सति जीवधारणाय रहस्यं गुह्यो मन्त्रः । काः पृच्छन्ती । पियविरहसहिरीमो प्रियविरह सहनशीलाः । सीमन्तिन्यस्ताः किल अनुभूतदयितविरहतया प्राणधारणरहस्यं जानन्तीति । प्रच्छिर्द्विकर्मकोऽयम् । मुग्घा नायिका॥४९॥
५०) सीहल्लस्य (? सिंहलस्य) । [अन्यमहिलाप्रसङ्गं प्रार्थये दैव कुरु मम दयितस्य । पुरुषा एकान्तरसा न खलु दोषगुणान् विजानन्ति ॥] दे दिव्व कुणेसु दैव कुरुष्व । अन्नमहिलापसंग अन्यस्त्रीप्रसङ्गम् । कस्य । मज्झ दइयस्स मम दयितस्य । यतः पुरिसा इक्कंतरसा न हु दोसगुणे वियाणंति पुरुषा एकान्तरेसा न खलु दोषगुणान् विजानन्ति । यदि खलु अयम् अस्मत्कान्तो अन्यरामा रमयति तद् अस्मदोयान् अशेषान् गुणान् बुध्यते, बुद्धवा च न मामवगणयतीति । दे इति प्रार्थनायां निपातः ॥५०॥
५१) अनिरुद्धस्य । [स्तोकमपि न निर्यातीयं मध्याह्ने पश्य 'शिरीषतललीना । आतपभयेन च्छायाऽपि पथिक तत् किं न विश्राम्यसि ॥] काचित् प्रपापालिका कंचिन्नरं रिरंसमाना विश्रामोक्तिव्यपदेशेन इदमाह । पहिय पथिक, ता किं न वीसमसि तत् किं न विश्राम्यसि । यतः उय पश्य मज्झन्हे छाही थोयं पि न नीइ इमा मध्याह्ने छाया स्तोकमपि न निःसरतीयम् । इयं कीदृशी । सिरीसतललुक्का शिरीषतललीना । केन । आयवभएण आतपभयेन । इदम् उक्तं भवति । १w. हे; २w. अम्ह; ३w. सरीरतललुक्का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org