________________
૧૯
गाहाकोसो
[ १.३७
W36 ३७) चच्चरघरिणी पियदंसणा य तरुणी पउत्थवइया य । असई सयझिया दुग्गया य न ये खंडियं सीलं ॥३७॥ W37 ३८) तालूरभमाडणेखुडियकेसरो गिरिणईऍ पूरेण । दरबुड्डुब्बुडुणिबुड्डमहुयरो हीर६ कलंबो ||३८||
सौमित्रियेथा सीतायां मयि तथा वर्तितुमुचितं नान्यथेति । प्रगल्भा नायिका । दियरो भर्तृभ्राता अनुजः । सोमित्ती लक्ष्मणः । कुड्डुं भित्तिरति । सूक्ष्मा-लंकारः ॥३६॥
३७) हालस्य । [ चत्वरगृहिणी प्रियदर्शना च तरुणी प्रोषितपतिका च । असती प्रतिवेशिनी दुर्गता च न च खण्डितं शीलम् ||] न य खंडियं सीलं न च तया खण्डितं शीलम् । कदाचिद अगोचर गृहवासिनी स्यादित्याह । चच्चरघरिणी चत्वरगृहिणी । या खलु चत्वरगृहिणी सा सकललोकलोचनगोचरं गच्छतीति । कदाचित् चत्वरगृहिण्यपि अमनोज्ञदर्शना सा स्यादित्याह । पियदंसणा प्रियदर्शना । तां सर्व एव निकामं कामयते । कदाचित् प्रियदर्शनाऽपि अनवतीर्णतारुण्या भवतीत्याह । तरुणी । या तरुणी सा मकरकेतनेन क्रोडीक्रियते । कदाचित् तरुण्यपि सभर्तृका भवतीत्याह । पउत्थवइया य प्रोषितपतका च । या खलु प्रोषितपतिका तस्याः प्रतिबन्धकाभावात् सर्व एव युवजनो वेश्म प्रविशति । कदाचित् प्रोषितपतिकाऽपि सतीभिः समाकुला भवतीत्याह, असती प्रतिवेशिनी । सा तदनुषङ्गदोषेण दुष्यति । कदाचिदसती - प्रतिवेशिन्यनि स्वैरा भवतीत्याह दुग्गया य दुर्गता च । या खलु दुर्गता भवति सा धनलोभेन विनश्यति । एवं सामग्रयां सत्यामपि न स्खण्डितं शीलम् इति महासतीत्वं वर्णितं भवति । तत्र केवलं कौलीन्यमेव कारणम् । चच्चरं चतुष्पथम् । सयज्झिया प्रतिवेशिनी । कार्याक्षेपोऽलंकारः । प्रतिषेधोक्तिराक्षेपः (काव्यादर्श २.१२०) ॥ ३७॥
३८) माहिलस्य । [ आवर्त भ्रमणखण्डितकेसरो गिरिनद्याः पूरेण ।
१ w. चतर; २ हु. १w. भमाउल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org