________________
गाझकोसो
[१.२५
W27 २५) पणयकुवियाण दुन्हें' वि अलियपमुत्ताण माणइत्ताण ।
निच्चलणिरुद्धणीसासदिन्नयण्णाण को मल्लो ॥२५॥ नायिका निशायां निर्भरशयितां दृष्ट्वा अन्यरमणीरतिसुखलाभलालसो विरहव्यग्रतां गतवान् । सा पुनः प्रबुद्धा तदीयदुर्नये मानमवलम्ब्य व्यवस्थिता । अथ सत्यनिकृतकृत्यप्रवृत्त्या (१) कृतमिथ्याशपथैस्तां प्रत्याययितुं प्रवृत्तः । यदा न कथमपि प्रत्येति तदा स एव मानमग्रहीत् । तथाभूतं च वीक्ष्य लक्षतः(?) तमेव नायकं सा निबोधयन्ती सखेदमाह । जइ निसासु सुन्नइयपासपरिमुसणवेयणं तुमं जाणंतु च्चिय यदि निशासु शून्यीकृतपार्श्वपरिमर्शनवेदनां त्वम् अज्ञास्यः तदा मानं नाकरिष्यः । केषाम् । पासुत्तदरविउद्धाणं (प्रसुप्तेषदविबुद्धानाम्) । त्वयि गतवति शून्यशय्यापाश्वपरिमर्शनव्यथां मम त्वम् अजानन् विज्ञायसे । दुस्सहदुःखसद्भावम् आविष्करोति । पासुत्त इति प्रसुप्तशब्दस्य समृद्धयादिषु पाठ'त् (वररुचि, प्रा. प्रकाश, १.२; हेम चन्द्र, प्रा. व्या. १.४४) आत्वम् । इयमपि स्वीया प्रगल्भा धीरा , नायिका ॥२४॥
२५) वत्सराजस्य । [प्रणयकुपितयोयोरपि अलीकप्रसुप्तयोर्मानवतोः । निश्चलनिरुद्धनिःश्वासदत्तकर्णयोः को मल्लः ॥] दुन्ह वि माणइत्ताण को मल्लो द्वयोरपि दम्पत्योर्मानवतोः को मल्लो, न कश्चिदपीत्यर्थः । तयोरन्यतरो धीरो नास्तीति भावः । कथंभूतयोः । पणयकुवियाण प्रणयकुपितयोः । निच्चलणिरुद्धणीसासदिन्नयण्णाण निश्चलनिरुद्धनिःश्वासदत्तकर्णयोः, आलिङ्गनलालसयोः अन्योन्यनिसर्गनिष्प्रकम्पयोः । व्यलीकनिद्राकाङ्क्षया निश्चलनिरुद्धनिःश्वासवितीर्णकर्णत्वम् । सुप्तस्य हि विशङ्खलाः श्वासा निर्यान्तीति । मानेन वित्तयोः प्रख्यातयोरित्यर्थः । अस्त्यर्थक इत्तप्रत्ययः । जातिरलंकार: ॥२॥ १w दोण्ह २w माणइल्लाणं ३w दिण्णकण्णाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org