________________
१९२ गाहाकोसो,
-५:३१] w568 ४३१) पंकमइलेण छीरिक्कघाइणा दिन्नेउन्नयवएण ।,
आणंदिज्जई हलिओ पुत्तेण व सालिछित्तेण ॥३१॥ w569 ४३२) कह मे परिणइयाले खलसंगो होहिइ ति चिंतंतो ।
ओंणयमुहो ससूओ रुयइ व साली तुसारहिं ॥३२॥ .४३१) कलशचिह्नस्य । [ पङ्कमलिनेन क्षारैकधायिना दत्तोन्नत-- पयसा ( पदेन ) । आनन्द्यते हालिकः पुत्रेणेव शालिक्षेत्रेण ॥ ] हलिओ आणांदज्जइ सालिछित्तेण शालिक्षेत्रेण हालिक आनन्द्यते । पुत्तेण व पुत्रेणेव । कीदृशेन क्षेत्रेण । पंकमइलेण पङ्कमलिनेन छोरिक्कघाइणा क्षोरैकधायिना क्षीरमेकं धातीति (? धयतीति ) एवंशालेन । दिन्नउन्नयवएण दत्तम् उन्नतं पयो यस्मिन् । शालिक्षेत्रे हि प्रचुरं पयः प्रवेश्यते । पुत्रेण च कीदृशेन । पङ्कमलिनेन क्षीरैकधायिना क्षीरमेकं घयतीत्येवंशोलेन। दत्तोन्नतपदेन । पुत्रवान् हि उन्नतं पदं प्राप्नोति । अन्ये तु दिन्नजन्नुयवएण इति पठन्ति, व्याचक्षते च दत्तं कृतं जन्नुयवयं पतितमिव प्रत्युत्थापनं (१) यस्य तत् तथोक्तम् । अथवा दत्तं. जानुप्रमाणं पयो यस्मिन् इति योज्यम् । तेन शालिक्षेत्रेण । दत्तजानुभ्यां किल शिशुमा॑म्यतीति । एवं च पुत्रशालिक्षेत्रयोः साधर्म्यम् । उपमालंकारः॥४३१॥
४३२) बहुगुणस्य । [ कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन् । अवनतमुखः सशूकः ( सशोकः ) रोदितीव शालिस्तुषारैः॥ ] रोदितीव शालिः । कैः । तुसारेहिं तुषारैः अवश्यायसलिलैः । किंभूतः । ओणयमुहो अवनतमुखः। भूयश्च कीदृशः । ससूओ सशूकः । किं कुर्वन् रोदितीव । कह मे परिणइयाले खलसंगो होहिइ त्ति चिंतंतो कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन् । यस्य किल परिणतिकाले वृद्धावस्थायां दुर्जनसङ्गो भावो सोऽवनतमुखः सशोकः शङ्कां वहन् रोदितीति प्रषच्छाया काऽपि तत्र महृदयचमत्कारिणी समुल्लसति । एकत्र शूकः किंशारः ( किंशारुः ), अन्यत्र शोकः अशुभसंक्रमणशङ्का । एकत्र १w. दिण्णजाणुवडणेण; २w. तुसारेण.. ... ... ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org