SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८० गाहाकोसो [५.२ W 389 ४०२) कस्स भरसित्ति भणिए को मे अस्थि त्ति जंपमाणीए । तु विरह रुयंतीए अम्हे वि रुयाविया तीए ॥ २ ॥ W 390 ४०३) पायवडियं अहन्ने किं दाणि न उट्टबेसि भत्तारं । एवं चिय अवसाणं दूरं पि गयस्स पिम्मस्स || ३ || पथिका हालिकस्य दुहितरं पश्यन्ति । कस्मात् | घराओ गृहात्, निर्यान्तोमिति अध्याहार्यम् । कथंभूताः । अणिमिसच्छा अनिमिषाक्षाः । कथंभूताम् । पिटुपंडुरियं पिष्टपाण्डुरिताम् । कामिव । दुद्धसमुद्दुच्छलंत लच्छिं पिव दुग्धसमुद्राद् उच्छललक्ष्मीमिव । पिष्टरजोरुषितत्वाद् दुग्धान्धिसमुत्थितया लक्ष्म्या सह सादृश्यं सरिकसुतायाः । लक्ष्मीपक्षे अनिमिषाक्षा देवाः । जोयंति अणिमिसच्छा धूयं इलियस्स पिट्ठपंडुरियं । दुध्दोवहीहि एहि य नितिं लच्छि पिव घराओ || इति पाठः । उपमापर्यायोक्तभ्यां संसृष्टिरलंकारः । विस्मयोऽत्र स्थायीं भावः । स्याद् विस्मयोऽत्र नो समानुषं (?) मायेन्द्रजालकुह काद्यैः । निरतिशयशिल्पचित्रादिकर्मनिर्माण निर्वर्यः ॥ तस्य च वस्तूत्क्षेपैरनिमिषप्रेक्षणैः सरोमाञ्चैः । कार्योऽभिनयो लोचनविस्तारैः साधुवादैश्च ॥ अस्यानुपमरूपमालम्वनविभावः । अनिमिषेक्षणम् अनुभावः ॥ ४०१ ॥ ४०२ ) [ कस्य स्मरसीति भणिते को मेऽस्तीति जल्पन्त्या । तव विरहे रुदत्या वयमपि रोदितास्तया ।। ] काचित् कस्याश्चित् पत्युः पुरतः सनिर्वेदमिदमाह । तव विरहे रुदत्या तथा वयमपि रोदिताः । किंभूतया तया । को में अस्थि त्ति जपमाणीए को मेऽस्तीति जल्पन्त्या । क्व सति । कस्स भरसित्ति भणिए कस्य स्मरसीति भणिते । सकरुणं वयं रोदिताः । तद् गत्वाऽसौ त्वया समाश्वास्यतामिति भावः । पर्यायोक्तिरलंकारः ॥ ४०२ ॥ ४० ३) विरहानलस्य । [ पादपतितम् अधन्ये किमिदानीं नोत्थापयसि भर्तारम् । एवमेवावसानं दूरमपि गतस्य प्रेम्णः ।। ] हे अहन्ने अभव्ये किं दाणि न उट्ठवेसि भत्तारं किमदानीं नोत्थापयसि भर्तारम् । किंभू१ w उब्बिग्रारोरीए २ w अहव्वे; ३. w एअं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy