________________
-३.५०]
तीयं सयं w 310 २४९) न गुणेहि हीरइ जणो होरइ जो जेण भाविओ तेण ।
निच्छति' पुलिंदा मुत्तियाइँ गुंजाउ गिण्हंति ॥४९॥ W311 २५०) लंकालयाण पुत्तय वसंतमासम्मि लद्धपसराणं ।
आवीयलोहियाणं बोहेइ जणो पलासाणं ॥५०॥
२४९) [न गुणैर्हियते जनो हियते यो येन भावितस्तेन । नेच्छन्ति पुलिन्दा मौक्तिकानि, गुञ्जा गृह्णन्ति ॥] काचित् कृपाशालिनीमपि गृहिणीम् अगणयित्वा पराङ्गनायामासक्तं नायकं प्रति प्रयुक्त्या उपालम्भगभमिदमाह । न गुणेहि होइ जणो न गुणैर्हियते जनः हीरइ जो जेण भाविओ तेण, यो येन भावितो रञ्जितो वासितान्तःकरणः स तेन हियत इति । अमुमर्थ दर्शयन्नाह । निच्छंति पुलिंदा मोत्तियाइँ गुंजाउ गिण्हति नेच्छन्ति पुलिन्दा मौक्तिकानि गुञ्जाश्च गृह्णन्ति । तत्त्वप्रकाशनपरेयमुक्तिः । पुलिंदा शबराः । गुञ्जाः कृष्णलाः । अर्थान्तरन्यासपर्यायोक्तिरलंकारः ॥२४९॥
२५०) सुदर्शनस्य । [ लङ्कालयेभ्यः पुत्रक वसन्तमासे (वसान्त्रमासे) लब्धप्रसरेभ्यः । पीतलोहितेभ्यो बिभेति जनः पलाशेभ्यः ॥] हे पुत्तय पुत्रक, बीहेइ जणो पलासाणं बिभेति जनः पलाशेभ्यः । न केवलं पलाशा वृक्षाः राक्षसाश्च । तत्र वृक्षेभ्यस्तावत् कथंभूतेभ्यः । लंकालयाण लकयुक्तगृहेभ्यः । वसंतमासम्मि लद्धपसराणं वसन्तमासे लब्धप्रसरेभ्यः । तदा किल पलाशानां (पुष्पसमृद्धिर्भवति)। राक्षसेभ्यः कथंमतेभ्यः । वसान्त्रमासेषु लब्धप्रसरेभ्यः । ते हि वसान्त्रमासेषु लुब्धाः । पुनरपि कीदृशेभ्यः । भावीयलोहियाणं आपीतलोहितेभ्यः । कीदृशेभ्यो वृक्षेभ्यो राक्षसेभ्यश्च । आपीतो लोहितो वर्णो येषां ते (वृक्षाः) तथोक्ताः । आसमन्तात् पीतं लोहितं यैस्ते (राक्षसाः) तथोक्ताः । अतस्तेभ्यः पलाशेभ्यो जनो बिभेतीति वाक्यार्थः । शब्दशक्त्यनुरणनरूपव्यापारव्यङ्ग्यो ध्वनिरयं लक्ष्यक्रमोद्योत मेदः। अविशेषश्लेषोऽयम् इति रुद्रटः (काव्यालंकार, १०,३-४) ॥२५०॥ ____1w मोत्तूण; 2w. वसंतमासेक्कलद्धपसराण,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org