SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ गाहाकोसो [३.१तीयं सयं “W576 २०१) कस्स करो बहुपुण्णफलिक्तरुणो तुहं विसम्मिहिइ । थणपरिणाहे वम्महणिहाणकळसे व्व पारोहो ॥ १ ॥ *W249 २०२) अज्ज मए गंतव्वं घणंधयारे वि तस्स सुहयस्स । . अज्मा निमीलियच्छी पयपरिवाडि घरे कुणइ ॥२॥ __ २०१) इन्दुराजस्य । [ कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति । स्तनपरिणाहे मन्मथनिधानकलशे इव प्ररोहः ।। ] ओं नमो जिनाय । काचित् कान्तं युक्त्या प्रशंसन्ती इदमाह । कस्स करो बहुपुण्णप्फलिक्कतरुणो थणपरिणाहे तुहं विसम्मिहिइ बहुपुण्यफलैकतरोः कस्य . करः स्तनपरिणाहे तव निपतिष्यति ( ? विश्रमिष्यति)। कस्मिन् क इव वम्महणिहाणकलसे व्व पारोहो मन्मथनिधानकलशे प्ररोहः पल्लवः इव । निधानकलशस्योपरि तरोः प्ररोहो रोहतीति लोकप्रसिद्धिः । धन्यः स्वल्वसौ यस्य करः तव परिणाहिनि स्तनमण्डले पतिष्यतीति भावः । बहुपुण्णप्फलेति सेवादिगणपाठात् (वररुचि, ३,५८ ) द्वित्वम् ।। २०१ ।। २०२) हालस्य [अब मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य । युवतिनिमोलिताक्षी पदपरिपाटी गृहे करोति ॥ ] तरुणी पदपरिपाटी गृहे करोति । कथंभूता । निमीलियच्छी निमीलितनयना । अग्ज मए तस्स सुहयस्स घणंधयारे वि गंतव्वं अद्य मया तस्मै सुभगाय धनान्धकारेऽपि -गन्तव्यम् । तत्कथं तिरस्कृतनयनालोकेषु (तमस्सु) गम्यते इति प्रागेव प्रियभवनमनुसंधाय निमीलिताक्षी गृह एव गतागतं करोतीति भावः । -तस्य सुभगस्येति तादर्थ्यचतुर्थ्यर्थे षष्ठी । गृह इति काकाक्षिगोलकन्यायेन वा उभयत्र संबन्धनीयम् । अभिसारिका नायिका । तस्या लक्षणम्-या दूतिकाऽऽगमनकालमपारयन्तो सोढुं स्मरज्वरभरातिपिपासितेव । निर्याति बल्लभजनाधरपानलोभात् सा कथ्यते कविवरैरभिसारिकेति ॥ तस्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy