________________
श्लोकबद्धः सूत्रपाठः।
229
दशमः पादः। प्राच्यासिद्धिः शौरसेन्या ओक्खमाणो भविष्यति । मूर्ख मुरुक्खो भवत्यां भोदि वक्रे तु वक्नु च । वंकुभं केचिदिच्छन्ति प्रकृते वहणं भवेत् ॥ १६८ ॥ अत आन्निहीनसंबुद्धी हीहीभो परीतोषे । जेअ जिभ चैवार्थेऽद्भुते हीमाणहे अविद विषादे ॥ १६९ ॥
एकादशः पादः। आवन्ती स्यान्महाराष्ट्रीशौरसेन्योस्तु संकरात् । क्षश्छः सदृक्षे क्त्वस्तूणस्तिङां ज जा भविष्यति ॥ १७० ॥ मध्ये च हो भुवः पेच्छो दृशः स्याद्दरिसो णिङि । शृणोत्यादेर्यका सुव्वाद्याः प्राग्वत्सोच्छमादयः ॥ १७१॥ धातूनां द्वे पदे स्यातां ञ्चिअ अ इवार्थको । आवन्त्यामेव बाह्रीकी किं तु रस्यात्र लो भवेत् ॥ १७२ ॥
द्वादशः पादः। मागधी शौरसेनीतः षसोः शो रस्य लो भवेत् । क्खस्य को न खु शब्दस्य वसतौ तस्य धो भवेत् ॥ १७३ ॥ त्तत्थट्टच्छानामुपरिस्थः शो बुलुग्बुभुक्षायाम् । धो हो गौरविते गोमिको वयस्ये वअंशः स्यात् ॥ १७४ ॥ स्यालस्य शिआलः स्यात् कोष्णादेः कोशणादिः स्यात् । हृदयस्य हडकं स्यान्मातुः स्यान्माईका बटौ वडुव्वः ॥ १७५॥ गणनायां गण्णा स्यात् पिशाचके पिव्ववः प्रोक्तः। वृक्षे वश्चो रत्ने लदनं चजयोरुपरि यः स्यात् ॥ १७६ ॥ के दी? वा क्त्वो दाणिश्च क्वचिदुदवापयोः स्थाने । सौ पुंस्यदेदितावेदोतौ संबोधने प्रायः ॥ १७७ ॥ आद्वाऽऽक्षेपे हो वा सो भवेत्प्राक् च दीर्घः स्यात् । अहमित्यर्थे हक्के हके च हग्गे हगे हगा चेति । युष्मानर्थे तुम्हें तुम्हे स्यातां चिट्ठस्य तु श्चिण्टः ॥ १७८ ॥ भविष्यति भुवः स्यातां भविस्लदि भुवीअदि। कृमृगमीनां तो डस्ते कमगाश्च क्वचिच्च दः ॥ १७९ ॥ लुग्व्यत्ययश्च बहुलं सुपा दीर्घस्तिडां क्वचित् । शौरसेन्या अदूरत्वादियमेवार्धमागधी ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org