________________
228
प्राकृतसर्वस्वम् ।
टाङसिङस्डीनामेद्वितीयया मादरं मातुः। ई न किमादेः क्लीबे जश्शसोर्णि वा न चैसिमिदमादेः ॥ १५२ ॥ आस स्सा से तो किमादेः स्यातामेव कुदो इदो। नालादिरामेदमः सिमिहस्येधो विधीयते ॥ १५३ ॥ क्लीबे स्वम्भ्यामिदमिणं सुनेअमअमन्यतः । नैसैतदोऽहादसश्च सिङस्भ्यामदो भवेत् ॥ १५४ ॥ अथ युष्मदस्तुमं स्वम्भ्यां तुम्हे भवति जश्शस्भ्याम् । टाङिभ्यां तु तए स्यात् तुम्हः स्याद्भिस्भ्यसाम्सुप्सु ॥ १५५॥ ङसिना समं तुमादो ते दे तुम्हा डसा शसाम्भ्यां वो । अहमस्मदः सुना स्याजसा व स्याच्छसा चाम्हे ॥ १५६ ॥ मममा टया मए स्यान्मइ च डिना स्थान मज्झ डसा । आमाम्हं अम्हाणं ङसिना मत्तो ममादो द्वौ ॥ १५७ ॥ धातोः परस्मैपदं स्यात्रिषु प्रायेण लड् भवेत् । लोड्विध्यादौ भाविनि लट् त्यादेर्दस्तस्य भूम्नि धः ॥ १५८ ॥ उत्तमे म्हो भविष्यति स्सश्च त्यादौ स्तमेव च । न जजाहा सोच्छमाद्या अत एत्वं तुमादिषु ॥ १५९ ॥ भुवो भो होश्च शाकल्यमते स्यात्क्त्वालुटोर्भवः । न क्ते हः पश्यतेः पेच्छो बुवो वुच्चः कथेः कधः ॥ १६०॥ घ्रो जिग्घः सद्भाते अः फुसो मृजेः क्षुदः खंदः । घूर्णी घुम्मः स्तौतेस्थुणो मियो भा घसः सृजतेः ॥ १६१ ॥ छुपश्छिग्गच्छुवौ भावकर्मगोस्तु छुवो भवेत् । लुटि दाजो दइ भवेत् यक्क्त्वायच्सु द इष्यते ॥ ॥ १६२ ॥ चर्चेश्चव्वो अहेर्गेण्हो गेज्मघेप्पो यका सह । न क्ततवतुतव्येषु कपिलो गेहमिच्छति ॥ ॥१६३ ॥ शक्नोतेः सक्कुणसक्को तीरो भावकर्मणोर्न स्यात् । म्लायो मिलाअ हुश्रुजिलूजां णोऽन्ते यका न ब्वः ।। १६४ ॥ स्थश्चिट्ठ उदोत्थः स्यात् स्वपेः सुअः स्याल्लुडादिकेषु सुवः । . स्मरतेः सुमरः शीरुधिरुदां सुआरोवरोदाः स्युः ॥ १६५ ॥ मजेः खुप्पो न स्याद्राजो रेहः कृञश्च कुणः । मो हनिखन्योर्दुभादयो यका द्विर्गमाद्यन्तः । बहुलं भीष्मादेभिप्फाद्याः स्यु मनि क्विबन्ताः स्युः ॥ १६६ ॥ द्रागित्यर्थे दडत्ति क्खु निश्चये बिन्दुतः कलुक् । एवार्थे जेव स्याद्विन्दो| लुग्वो द्विश्च वा भवेत् । नन्वर्थे जमिवार्थे विअ क्वचिदव्वश्च पूर्ववच्छेषम् ॥ १६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org