________________
श्लोकबद्धः सूत्रपाठः ।
शीघ्रार्थाः कलिं श्वोर्थे आम भवदर्थो बहिं बाह्ये ॥ १३७ ॥ -खल जे दे इर पादपूरणे हाम एवमित्यर्थे ।
शेषं तु संस्कृतात्स्यात् तादृश एवात्र तु समासाः । - तत्र निषिद्धाश्च स्युः पूर्वनिपातोऽन्यथा प्रायः ॥ १३८ ॥
नवमः पादः । शौरसेनी महाराष्ट्रयाः संस्कृतानुगमात् क्वचित् । नेद्वेतसाङ्गारयोः स्यादोत्वं च बदरादिषु । यथादिषु वचिह्नस्वः पिण्डादिष्वेद किंशुके ॥ १३९ ॥ मुक्तापुष्करवर्ज तुण्डादिष्वोदुडूखले ड्वा च । एदी कीदृशयोरित्पुरुषे च अद्युधिष्ठिरोपर्योः ॥ १४० ॥ इद्वेदनादेवरयोरत्ववत्वे प्रकोष्टके ।
अइदैवे गौरव आदउत् कौरवपौरवे ॥ १४१ ॥ ऋष्यादौ यादृशाद्याः स्यू रुक्खो वृक्षस्य केवलः । अपदादावयुजां शीकरचन्द्रिकयोर्भमैौ ॥ १४२ ॥ अपताकाव्यापृतगर्भितेषु बहुलं तकारो दः । पो वः स्यान्न कबन्धे पमावपूर्वेऽवरूवं वा । थो धोsप्रथमपृथिव्योर्भरिते धस्तस्य न दलोपः ॥ १४३ ॥ aagra हरिद्रादिषु लः क्वचित् ।
को हो नो पाषाणे दशचतुर्दश्योरनाम्नि वा ॥ १४४ ॥ आदौ पदस्य शाबे छो न स्याल्लाङ्गलादौ णः । यष्टयां लश्च किराते चो डः स्याद्दह्यमानस्य ॥ १४५ ॥ सर्वत्र युक्तस्य न खः स्फोटकस्योत्थितस्य ठः । क्षणक्षीरसदृक्षाणां छो डः सम्मर्दगर्दभे ॥ १४६ ॥ कूष्माण्डे होsभिमन्यौ जचि न्धोऽथ विभाषिताः । बाष्पे हो भिन्दिपाले ण्डो ण्यन्यज्ञेषु न इत्यमी ॥ १४७ ॥ संधीनां विश्लेषा बहुलं नाज्लुग्विशेषाः स्युः । पुनरपि पुणरवि कौतूहलसेवास्थूलके द्वित्वम् ॥ १४८ ॥ कालायस भाजनयोलुंगिदानीमस्तु बिन्दोर्वा |
परिवर्तनं करेण्वितरथयोर्न स्याद् बृहस्पतौ च भभः ॥ १४९ ॥ त्वस्य तं लक्ष्यानुसाराल्लिङ्गं स्यात्क्त्वायचोरिअः । कृगमिभ्यामुमश्च स्यात्तयोः कगगदावपि ॥ १५० ॥ आदतो दुर्वाससः सौ दो ङसेरादतः क्वचित् । डेरे इदुद्भ्यां म्मि जसो वो न स्यादुतथा स्त्रियाम् ॥ १५१ ॥
Jain Education International
For Private & Personal Use Only
227
www.jainelibrary.org