________________
226
प्राकृतसर्वस्वम् । विरचेर्विहिविल्लः स्यात्पप्फोडः प्रस्फुटस्तिमेस्तिण्णः । तिण्णाअश्च प्राद्विशतेढुक्कः स्यात्परेर्विआलः स्यात् ॥ १२२ ॥ चर्चश्चप्पः स्यात् स्वदतेश्चक्खः पृच्छतेः पुच्छः । जागतेजग्गः स्यात् प्रतेरिणः पत्तिआभः स्यात् ॥ १२३ ॥ उण्णालथंगगुलुगुंछा उन्नामेस्वसेर्वजः ।। प्रतिपालयतेश्चिरमालविरीही चूरमुम्मुरौ चूर्णः ॥ १२४ ॥ तिक्खालस्तेजयतेरुब्बुह उत्क्षुभ्यतेष्टवः स्थापेः । उत्स्तृज ओत्थल्लोत्थल्लो वेरिल्लः स्फुरश्चुलुचुलः स्यात् ॥ १२५ ॥ म्भसफिट्टौ भ्रंशेः प्रसरतेः पअल्लश्छिवश्छुपतेः । विकसेस्तु विहसवोसट्टविसट्टास्तिड्डवस्ताडेः ॥ १२६ ॥ प्रादेर्धात्वादिगिम्यादीनां यकान्तोऽपि । कृञ्हजोस्तु कीरहीरौ तीरस्तृशक्नुवोश्छुपश्छिप्पः ॥ १२७ ॥ दुहलिहवहतीनां दुब्भलिब्भवुब्भा दृशेर्दीसः । स्युर्धेप्पगेज्झघेज्झा ग्रहेः कथेः सासणवरिजौ ॥ १२८ ॥ ज्ञो णज्ज पव्व इत्येतौ दादीनां च दिज्जाद्याः।। क्तेन रुदादे रुण्णाद्याः प्रागादेशभेदाश्च ॥ १२९ ॥
__ अष्टमः पादः। हुँ दाने वारणे प्रश्ने स्मृतौ हु क्खु खु निश्चये । संभावने वितर्के च णाइ माइ अलाह्यण ॥ १३०॥ निषेधार्था उपालम्भे समाप्तौ त्तिरितेर्भवेत् । ओ सूचनावितर्कानुतापप्रकोपविस्मये ।। उं क्षेपे विस्मये खेदे वितर्के सूचने तथा ॥ १३१॥ नन्वर्थोपमयोणं स्याद् हद्धि खेदानुतापयोः । अंतो संतो च मध्यार्थे हो स्यादामरणार्थकम् ॥ १३२ ॥ णवरं तु केवले स्यान्णवर च णवरि त्वनन्तरार्थेऽपि । पिव विव मिव अ इवार्था इर किर किल निश्चयाख्याने ॥१३३॥ किह कीस किणो प्रश्ने पि वि अप्यर्थे तिरि तिरोऽर्थे । श्वेअ चिभ एवाथै अ स्मरणे णवि वैपरीत्ये स्यात् ।। १३४ ॥ णो खेदामन्त्रणवैचित्त्यवितर्कप्रकोपेषु । अन्वो विस्मयसूचनसंभाषणखिन्नतानुतापेषु ॥ १३५ ॥ दाणिं एम्हि अणहा इह एत्ताहे च दाणि एत्तूण । अधुनार्था उअ पश्येत्यर्थे वे ब्वे वले च संबुद्धौ ॥ १३६ ॥ झत्ति सहसत्ति घत्ति तडत्ति णवरि एकरिसिभा षट् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org