________________
- ६. ३१]
प्राकृतसर्वखम् ।
६. २७. एकवचनं च हित्था भवेत्कुबा प्रथममध्यमयोः ॥९० ॥ भविष्यति कृञः प्रथममध्यमयोः एकवचनं हित्था च वा स्यात् । काहित्था, क्रियात् कृषीष्ट क्रियाः कृषीष्ठाः वा। लुड्-लड्-लक्ष्वप्येवम् । चकारात् पूर्वसूत्रात् मोमुमैः सह काहिस्सा काहित्था क्रियास्मः कृषीमहि इत्यादयः ॥ ६. २८. काहं दाहं कृदाजोः स्तः भविष्यति वेति च । मण्डूकप्लुतिन्यायात् मिङा सह । काहं । दाहं । पक्षे काहिमि, देहिमि । अर्थभेदाल्लिङादयः ॥ ६. २९.
चादीनां सोच्छामादयः । भविष्यति मिङा सह स्युः। श्रु सोच्छं। वच वोच्छं। गम्ल गच्छं। रुद रोच्छं । दिश दिच्छं । मुल मोच्छं । विद वेच्छं। भिद भेच्छं। छिद छेच्छं । श्रूयासं श्रोतास्मि श्रोष्यामि अश्रोष्यम् इत्यादयोऽर्थाः। आकृतिगणोऽयम् ॥ ६. ३०. अविन्दवस्त्रिष्वपि ते स्सस्साहां लुक् च हेस्तु वा ।। ९१॥ त्रिषु कालेषु त्रिषु पुरुषेषु एकवचनद्विवचनयोरपि ते सोच्छमादयो बिन्दुवर्जिताः सन्तः श्रवादीनां प्रकृतेरेवादेशा वा भवन्ति । तत्र भविष्यति विहितस्य विकरणस्य स्सस्य स्सा हा इत्येतयोरुत्तमे विहितयोश्च लुक् च स्यात् । हेर्विकरणस्य तु लुग्वा स्यात् । लटि सोच्छइ, सोच्छंति । लिङ्लोटोस्तु सोच्छउ, सोच्छंतु । एवमन्यत् । भविष्यति लिङादौ सोच्छइ, सोच्छंति, सोच्छसि, सोच्छह, सोच्छहित्था, सोच्छिमो, सोच्छम, सोच्छिम ।- 'प्रायेणात एदिदातः स्युः" ( PS. VI. 7) इतीत् । पक्षे सोच्छहिइ, सोच्छहिंति, सोच्छहिसि, सोच्छहिह, सोच्छहित्था, सोच्छहिमि, सोच्छहिमो सोच्छहिमु, सोच्छहिम इत्यादयः । श्रूयात् , श्रोता, श्रोष्यति, अश्रोष्यत् इत्यादयोऽर्थाः ॥ ६.३१. लिङ्लोटोरेकस्मिन्नु सु मु स्युः । वेति निवृत्तम् । लिङ्लोटोस्त्रिषु पुरुषेषु एकस्मिन् वचने क्रमाद् उ सु मु इत्येते त्रयः स्युः । कुणउ, कुर्यात् कुर्वीत करोतु कुरुताम् । कुणसु । कुणमु ।
____14 & 15 In these two places and also in the last sent. of comm. B reads z instead of 3 which is the reading authorised by A and most probably is the original reading; for Mk. does not write दकरणं भाषान्तरार्थम् here as he has done elsewhere in similar case. Also cf. Bhām. VII. 18. So the reading of A seems to be appropriate.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org