SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [६. १९ - ६. १९. . अत एव माणः स्यात् ।। नियमसूत्रमिदम् । अत उत्तरमेव माणः स्यात् । पढमाणो। कुणमाणो । अनतस्तु होतो देंतो ॥ ६. २०. ईच्च स्त्रियां स्त्रियां शतृशानयोः स्थाने ईत् स्यात् । पढई । वड्डई । चकारात् पढंती पढमाणा पढमाणी ॥ ६. २१. भविष्यति हिः भविष्यच्छब्दो भविष्यत्कालविहितप्रत्ययोपलक्षणार्थः । तेन लड्-लुट्-लट्लिषु परेषु धातोर्हि विकरणः स्यात् । होहिइ, भूयात् भविता भविष्यति अभविष्यत् । - 'लड् भूतभाविनोर्वा स्यात् ' ( PS. VI. 1 ) इति तिङादयः । होहिंति भूयासुः भवितारः भविष्यन्ति अभविष्यन् । एवं मध्य- . मोत्तमयोः ॥ ६. २२. स्स च भविष्यति स्सश्च विकरणः स्यात् । होस्सइ । पढिस्सइ ॥ ६:२३. शशानयोलुंग् वा ॥ ८९ ॥ शतृशानयोः परयोः स्सस्य लुग् वा स्यात् । होस्संतो, होतो । पढिस्समाणो, पढमाणो॥ ६. २४. स्सा होत्तमे वेत्येव । भविष्यत्युत्तमपुरुषे स्सा हा इत्येतौ विकरणौ स्याताम् । भणिस्सामि, भणिहामि, भणिहिमि । भणिस्सामो, भणिहामो, भणिहिमो । अर्थभेदाल्लिङ् लुड् लड् लङ् । एवमुत्तरत्रापि ॥ ६. २५. मिङा स्सं स्यात् । भविष्यतीत्येव । भणिस्सं । वानुवृत्तेः भणिस्सामि, भणिहामि, भणिहिमि ॥ ६. २६. हिस्सा हित्था तु मोमुमैः स्याताम् । भविष्यति मोमुमैः सह हिस्सा हित्था इत्येतौ वा स्याताम् । भणिहित्था, भणिहिस्सा । पक्षे भणिहिमो भणिहिमु भणिहिम । अर्थभेदाल्लिङादयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy