SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ( १८ ) , (२६) हिरण्यदानं गोदानं भूमिदानं तथैव च । एकस्य जीवितं दद्यात् फलेन न समं भवेत् ॥ ३१ १० (२७) नभश्चरः सर्वजनप्रधानो वसुमहात्मा वसुधातलेऽस्मिन् । एकेन मिथ्यावचनेन राजा रसातलं सप्तममाससाद ।। , (२८) साकेतपुर्यां सुलसानिमित्तं कृतं निदानं मधुपिङ्गलेन । परोपराभ्यागमनं च तस्याः को नाशृणोत् भारतजातमर्त्यः ॥ ३६ ११ (२९) अग्निहोत्रं जुहुयात् स्वर्गकाम इति । ३६ १२ (३०) नाहं स्वर्गफलोपभोगतृषितो नाभ्यथितस्त्वं मया। सन्तुष्टस्तृणभक्षणेन च गुरुस्त्वं मे न चाहं सुतः॥ स्वर्ग नेतुमभीप्ससे यदि भवेद् वेदे च तथ्या श्रुतिः । यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥ , (३१) यूथादीनां तमेकं सरसकिसलयग्रासमात्रोपभोज्यं । मुग्धं यूपे निबद्धं भयतरलदृशं कम्पमानं वराकम् ।। बे बे ति व्याहरन्तं पशुमिति बिवशं निघ्नतां याज्ञिकानाम् । मन्ये वज्रातिरेकं न दलति हृदयं तत्क्षणादेव सद्यः ।। ३९ १६ (३२) उर्वशी ब्रह्मणो भार्या वेश्या विख्यातसुन्दरी । तस्याः पुत्रो वसिष्ठाख्यो वेदे विप्रगणेडितः । ५२ ३ (३३) यत्र यत्रोपपद्यन्ते जीवाः कर्मवशानुगाः । तत्र तत्र रति यान्ति कर्मणा तेन रञ्जिताः ।। ७ (३४) नन्दस्य राज्ये मदविह्वलाया हस्ताच्च्युतः स्वर्णघटोऽम्बुरिक्तः । सोपानमासाद्य करोति शब्दं रणं रणं टंटण टंटणेति ॥ (३५) उत्पलनालकृताभरणा सा त्वं न गतः स्थित सा पि निराशा। अद्य कृतं कमलं कमलादयाः कर्कशनालमकर्कशनालम् ॥ १२ (३६) उत्तिष्ठोत्तिष्ठ दुर्बुद्धे न त्वं किमपि बुद्धयसे । स्मर रिक्षं तथा व्याघ्रं न्यग्रोधे यत्त्वया कृतम् ।। (३७) नेतासौ सर्वहत्यानां यो मित्रं हन्ति दुर्मतिः । मित्रधुक् नरकं याति न जातु सुखमेधते ॥ , (३८) बालहन्याबलाहत्या वृद्धहत्या वरं कृता । न पापा मित्रहत्या सावनतासुखदायिनी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy