________________
( १७ ) १८ १५ (१२) पूजितव्यो जिनो नित्यं त्रैलोक्येश्वरपूजितः ।
जिनपूजासमं पुण्यं न भूतं न भविष्यति । २० ६ (१३) भारते मुरारिणा-त्वमारोह रथं पार्थ गाण्डीवं चापि धारय ।
निजितां मेदिनीं मन्ये निर्ग्रन्थो मुनिरग्रतः ।। (१४) शकुनशास्त्रे च-श्रवणस्तुरगो राजा मयूरः कुञ्जरो वृषः ।
__प्रस्थाने वा प्रवेशे वा सर्वे सिद्धिकराः स्मृताः ।। (१५) ज्योतिषाङ्गे च-पद्मिनी राजहंसाश्च [निर्ग्रन्थाश्च] तपोधनाः ।
यद्देशमुपसर्पन्ति तद्देशे शुभमादिशेत् ॥ (१६) धर्मशास्त्रे च–यागी च याज्ञी च तपोधनश्च
सूरोऽथ राजाथ सहस्रदश्च । ध्यानी च योगी च तथा शतायु:
संदर्शनादेव हरन्ति पापम् ॥ २० (१७) उदकागमे यथा रुद्ध सरः शोषति भास्करः ।
तथोपवासयोगेन प्राणी पापं विशोधयेत् ॥ (१८) श्रूयते सर्वशास्त्रेषु तपो नानशनात्परम् ।
पापानां क्षयहेतुत्वात्सर्वसौख्यप्रदायकम् ॥ (१९) देवा गन्धर्वयक्षा वा पिशाचोरगराक्षसाः !
व्रतोपवासयोगेन वशं गच्छन्ति तत्क्षणात् ।। (२०) विद्यामन्त्रास्तथौषध्यो योगाश्च वशकारकाः ।
सिध्यन्ति ह्यपवासेन क्षीयन्ते च जरादयः ।। २२ १६ (२१) साव्येनापि [स्वार्थेनापि] नमस्कारं यः करोति जिनेश्वरे ।
स निस्तरति संसारं किं पुनः परमार्थतः ।। २३ ५ (२२) उपकारशतेनापि गृह्यते न परः क्वचित् ।
सुगृहीतः सुमान्यो वा यः परः पर एव सः ।। , (२३) अफलस्यापि वृक्षस्य छाया भवति शीतला ।
निर्गुणोऽपि वरं बंधुर्यः परः पर एव सः ।। २३ १७ (२४) वृद्धवाक्यं सदाकृत्यं ये च वद्धाः बहुश्रुताः ।
पश्य हंसा वने बद्धा वृद्धवाक्येन मोचिताः ।। २६ ७ (२५) यो दद्यात्काञ्चनं मेरुं कृत्स्नां चापि वसुन्धराम् ।
एकस्य जीवितं दद्यात् फलेन न समं भवेत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org