________________
२६०
वैरिभिरित्यर्थः, माढम् अतिशयेन सम्यक्तापितः सन्तापितः, तिर्यश्चश्च नारकांश्च देवाश्च मानवाश्च तिर्यङ-नारक-देव-मानवाः तेषां कुत्सिताः गतयः तिर्य-नारक-देव-मानव-कुगतयः,तासाम् ओघाः-समूहाः तिर्यङ्नारक-देव-मानव-कुगत्योधाः, तेषाम् असुख-दुःखं प्रापितः-नीता तिर्यङ्-नारक-देव-मानव-कुगत्योधासुखप्रापितः, एतादृशोऽहं साम्प्रतम् अधुना उद्यम-प्रयत्नं कृत्वा अमुष्य दुःखस्य वारणकृते-निवारणाय, तेषां -मोहादिरिपूणां जेता तज्जेता-तज्जयकारकः, तं सुरासुरनतं, श्रिया युक्तः श्रीयुक्तः, स चासौ विशेषेण इतः-गतः रागो यस्मात् स श्रीवीतरागः स चासौ अजितश्च श्रीवीतरागाजितः, तं द्वितीयम् अजितं जिनं सततं वन्दे-वन्दनं करोमि ॥ २॥
भावार्थ-क्रोधादि कषायोथी पुष्ट थयेल, मोहादि शत्रुथी अत्यंत संताप पामेल, तिर्यंच-नारकी-देव तथा मनुष्योनी कुगतिओना समूहथी दुःख पामेल, एवो हुं हमणां उद्यम करीने, ए दुःखने निवारण करवा माटे, ते मोहादि तथा रागादि शत्रुओने तथा तियेचादि गतिओने जीतनार, अने देव-दानवोए जेने नमस्कार करेल छे, एवा श्री वीतराग अजितनाथस्वामिने हुं निरंतर वन्दना करूं छु. २ .. . मू०-सावित्रीयुवतीरतः कमलभूर्विष्णू रमासंगतः
कण्ठेकाल उमायुतस्त्रय इमे, देवाः सरागा भुवि । नोत्तीर्णाः, स्वयमन्यतारणविधी, नालं विदित्वा ततो, वन्दे संभवमुत्तमं सुरनतं, श्रीवीतरागं मुदा ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org