________________
आचार्य श्रीसागरचंद्रसूरिगुरुगुणाष्टकम्
योऽपांसुलैमुनिवरैरपि माननीयो-विज्ञानदानकरणेन वदान्यभूमा । दुष्टेन्द्रियाश्वदमनेन धुरीणदान्तो जैनान्शुभं दिशतु सागरचन्द्रसूरिः ॥ १ ॥ मानापमानविजयेन सदैव शान्तः शास्त्रार्थपारगमनेन नितान्तधीरः । आत्मीयधर्मपरिरक्षणजागरूकः, पायात्स सागरमुनिर्भविनो भवाब्धेः ॥ २ ॥ सत्यादिभिक्षुकमहाव्रतपालनोत्कः सद्भावभावितमनाः समभावशाली । षड्जीवरक्षणविधिप्रथिताभिधेयो, भूयाद्भवाब्धितरणे स मुनिस्तरीव ॥३॥ कर्माष्टकेन्धनकभस्मविधानदक्षो-वैराग्यवाससुरभीकृतदिप्रदेशः। त्यागेन साधुजनकीर्तितत्यागिशब्दोजैनान्सदावतु स सागरचन्द्रसूरिः ॥ ४ ॥ यः शास्त्रसागरविलोडनदेवतेन्द्रो-निष्कास्य ज्ञानममृतं पिबति प्रमोदात् । आचार्यसर्वगुणभृद्यतिधर्मपालो-जैनेन्द्रशासनमणिर्जयतान्मुनीशः ॥५॥ विज्ञातपाणिनिमहामुनिशास्त्रसारः, काणादशासनविगाहनलब्धबोधः । साहित्यसाररसनिर्झरमजनोत्को, जीयात्स सागरमुनिभवपाशछेत्ता ॥ ६ ॥ योऽनेकदुर्गमवितर्कविनाशदक्षो, वन्दारु. जैनसुजनस्य स कल्पवृक्षः । भक्तयब्धिवृद्धिकरणे शरदिन्दुकल्पो, भूयादलं मुनिवरो जिनधर्मपुष्टयै ॥ ७ ॥ बीजं जिनेन्द्रनिहितं भुवि भारतेऽस्मिन्, उद्गच्छदङ्करयुतं गणपा अकार्षुः । तजातधर्मविटपी बहुपर्णशाखः, पोषं नयत्वनुदिनं मुनिरेष तं च ॥ ८ ॥ परमपूज्य मुनि महाराजश्री जगतचन्द्रजी गणितुं अष्टक
(शिखरिणीवृत्तम् ) सदा शान्तं दान्तं मविजनमनोऽले सुकमलम् । ददानं सम्यक्त्वं भवजलधिपाराय कृतिने ॥ सुधावाचासङ्घान् शिवपदपथान् संविदधतम् । जगचन्द्रं वन्दे जितमदरिपुं तं गणिवरम् ॥ १॥ नवो जातश्चन्द्रो जगति सुखदः कोऽपि मुनिपो।। यशोमिविख्यातो जित-मदन-मोहादिकलहः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org