________________
४४
स्वोपज्ञरहस्यवृत्तिविभूषितं
एकदेशे कुटिला नदी ।।२२।।
सिद्धौ तृतीया ।२।२।४३॥ सिद्धौ फलनिष्पत्तौ द्योत्यायां कालाध्ववाचिभ्यां टा-भ्याम्-भिस्लक्षणा तृतीया यथासंख्यमेक-द्वि-बहौ स्यात् । मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम् । सिद्धापिति किम् ? मासमधीत आचारो न तु गृहीतः ॥२३॥
हेतु-कर्तृ-करणेत्थम्भूतलक्षणे ।२।२।४४॥ फलसाधनयोग्यो हेतुः, कञ्चित् प्रकारमापन्नस्य चिह्नमित्थम्भूतलक्षणः । हेत्वादिवृत्तेर्नाम्नस्तृतीया स्यात् । धनेन कुलम्, चैत्रेण कृतम्, दात्रेण लुनाति, अपि त्वं कमण्डलुना छात्रमद्राक्षी: ? ॥२४।।
सहार्थे ।२।२।४५॥ सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहाऽऽगतः स्थूलो गोमान् ब्राह्मणो वा । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी
॥२५॥
काले भान्नवाऽऽधारे ।२।२।४८॥ कालवृत्तेर्नक्षत्रार्थादाधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । काले इति किम् ? पुष्येऽर्क: । भादिति किम् ? तिलपुष्पेषु यत् क्षीरम् । आधार इति किम् ? अद्य पुष्यं विद्धि ।।२६।।।
व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ।।२।५०॥ व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् । द्विद्रोणेन द्विद्रोणं वा धान्यं क्रीणाति । पञ्चकेन पञ्चकं वा पशून् क्रीणाति ॥२७||
समो ज्ञोऽस्मृतौ वा ।२।२।५१॥ अस्मृत्यर्थस्य संजानातेर्यद् व्याप्यं तद्वृत्तेस्तृतीया वा स्यात् । मात्रा मातरं वा संजानीते । अस्मृताविति किम् ? मातरं संजानाति ।।२८।।
दामः संप्रदानेऽधर्म्य आत्मने च ।।२।५२॥ दामः संप्रदानेऽधर्ये वर्तमानात् तृतीया स्यात्, तत्सन्नियोगे च दाम आत्मनेपदम् । दास्या संप्रयच्छते कामुकः । अधर्म्य इति किम् ? पत्न्यै संप्रयच्छति ||२९||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org