________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
चतुर्थी ।२।२।५३॥ संप्रदाने वर्तमानादेक-द्वि-बहौ यथासङ्ख्यं डे-भ्याम्-भ्यस्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते ।।३०॥
तादर्से ।।२।५४॥ तस्मा इदं तदर्थम्, तद्भावे सम्बन्धविशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु, रन्धनाय स्थाली ॥३१।।
रुचि-कृप्यर्थ-धारिभिः प्रेय-विकारोत्तमर्णेषु ।२।२।५५॥ रुच्यथैः कृप्यर्थैर्धारिणा च योगे यथासङ्ख्यं प्रेय-विकारोत्तमर्णवृत्तेश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागू:, चैत्राय शतं धारयति ।।३२।।
तुमोऽर्थे भाववचनात् ।२।२।६१॥ क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते, तस्यार्थे ये भाववाचिनो घञादयस्तदन्तात् स्वार्थे चतुर्थी स्यात् । पाकाय इज्यायै वा व्रजति । तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या ।।३३।।
गम्यस्याऽऽप्ये ।२।२।६२॥ यस्यार्थो गम्यते न चासौ प्रयुज्यते स गम्य:, गम्यस्य तुमो व्याप्ये वर्त्तमानाच्चतुर्थी स्यात् । एधेभ्य: फलेभ्यो वा व्रजति । गम्यस्येति किम् ? एधानाहर्तुं याति
||३४||
गतेर्नवाऽनाप्ते ।२।२।६३॥ गति: पादविहरणम्, तस्या आप्येऽनाप्ते वर्तमानाच्चतुर्थी वा स्यात् । ग्राम ग्रामाय वा याति । गतेरिति किम् ? स्त्रियं गच्छति, मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत्, पन्थानं याति ॥३५॥
मन्यस्याऽनावादिभ्योऽतिकुत्सने ।२।२।६४॥ अतीवकुत्स्यतेयेनतदतिकुत्सनम्, तस्मिन्मन्यतेाप्येवर्तमानान्नावादिवर्जाचतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये । मन्यस्येति किम् ? न त्वा तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वा नावम् अन्नं शुकं काकं शृगालं वा मन्ये । कुत्सन इति किम् ? न त्वा तृणाय मन्ये, युष्मदो मा भूत् । अतीति १. क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती ५।३॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org