SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ४६ स्वोपज्ञरहस्यवृत्तिविभूषितं किम् ? त्वां तृणं मन्ये ||३६|| हित- सुखाभ्याम् ।२।२।६५॥ आभ्यां युक्ताच्चतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् | चैत्राय चैत्रस्य वा सुखम् ||३७|| शक्तार्थ - वषड्- नमः - स्वस्ति स्वाहा स्वधाभिः | २|२|६८ || शक्तार्थैर्वषडादिभिश्च युक्ताच्चतुर्थी नित्यं स्यात् । शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः ।।३८।। पञ्चम्यपादाने |२| २|६९॥ अपादाने एक-द्वि-बहौ यथासंख्यं ङसि - भ्याम् - भ्यस्लक्षणा पञ्चमी स्यात् ! ग्रामाद् गोदाभ्यां वनेभ्यो वा आगच्छति ||३९|| आङाऽवधौ ।२।२।७०॥ अवधिर्मर्यादाऽभिविधिश्च, तद्वृत्तेराङा युक्तात् पञ्चमी स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः ||४०|| पर्यपाभ्यां वर्ज्ये | २|२|७१ ॥ वर्ज्ये वर्जनीयेऽर्थे वर्त्तमानात् पर्यपाभ्यां युक्तात् पञ्चमी स्यात् । परि अप वा पाटलिपुत्राद् वृष्टो मेघः । वर्ज्य इति किम् ? अपशब्दो मैत्रस्य || ४१|| प्रभृत्यन्यार्थ - दिक्शब्द- बहिरारादितरैः ।२।२।७५। प्रभृत्यर्थैरन्यार्थैर्दिक्शब्दैर्बहिरादिभिश्च युक्तात् पञ्चमी स्यात् । ततः प्रभृति, ग्रीष्मादारभ्य, अन्यो भिन्नो वा मैत्रात्; ग्रामात् पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः, पश्चिमो रामाद् युधिष्ठिरः, बहिर् आरात् इतरो वा ग्रामात् ॥४२॥ ऋणाद्धेतोः | २|२|७६॥ हेतुभूतऋणवाचिनः पञ्चमी स्यात् । शताद् बद्ध: । हेतोरिति किम् ? शतेन बद्धः ||४३|| गुणादस्त्रियां नवा |२| २|७७॥ अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाड्यात् जाड्येन वा बद्धः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy