SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ज्ञानात् ज्ञानेन वा मुक्तः । अस्त्रियामिति किम् ? बुद्ध्या मुक्त: ||४४|| स्तोका - ऽल्प- कृच्छ्र- कतिपयास करणे | २२|७९ ॥ यतो द्रव्ये शब्दप्रवृत्तिः स गुणोऽसत्त्वं तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्त्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकात् स्तोकेन वा, अल्पादल्पेन वा, कृच्छ्रात् कृच्छ्रेण वा, कतिपयात् कतिपयेन वा मुक्त: । असत्त्व इति किम् ? स्तोकेन विषेण हतः || ४५ || अज्ञाने ज्ञः षष्ठी | २|२|८० ॥ अज्ञानार्थस्य ज्ञो यत् करणं तद्वाचिन एक-द्वि-बहौ यथासंख्यं ङसोसाम्लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः सर्पिषोः सर्पिषां वा जानीते । अज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव तैलं सर्पिषो जानाति ||४६|| शेषे । २।२।८१|| ४७ कर्मादिभ्योऽन्यस्तदविवक्षारूप: स्व-स्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् । राज्ञः पुरुषः, उपगोरपत्यम्, माषाणामश्नीयात् ||४७|| कर्मणि कृतः ।२।२।८३॥ कृदन्तस्य कर्मणि षष्ठी स्यात् । अपां स्रष्टा, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ? भुक्तपूर्वी ओदनम् ॥४८॥ कर्तरि ।२।२।८६॥ कृदन्तस्य कर्त्तरि षष्ठी स्यात् । भवत आसिका । कर्त्तरीति किम् ? गृहे शायिका ||४९ || कृत्यस्य वा ।२।२।८८ ॥ कृत्यस्य कर्त्तरि षष्ठी वा स्यात् । त्वया तब वा कृत्यः कटः ||५०|| नोभयोर्हेतोः ।२।२।८९॥ उभयोः कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममा मैत्रेण || ५१ || तृनुदन्ता ऽव्यय-कंस्वानाsन्तृ [ श्] - शन्तृ - ङि-णकच्-खलर्थस्य ।२।२।९०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy