________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
चैत्रान्मैत्र: पटुः, माथुरा: पाटलिपुत्रकेभ्य आढयतरा: ॥१५||
क्रियाश्रयस्याऽऽधारोऽधिकरणम् ।२।२।३०॥ क्रियाश्रयस्य कर्तुः कर्मणो वाऽऽधारोऽधिकरणं स्यात् । कटे आस्ते, स्थाल्यां तण्डुलान् पचति ।।१६।।
नाम्नः प्रथमैक-द्वि-बहौ ।२।२॥३२॥ एक-द्वि-बहावर्थमात्रे वर्तमानानाम्नः परा यथासङ्ख्यं सि-औ-जस्लक्षणा प्रथमा स्यात् । डित्थ:, गौः, शुक्लः, कारकः, दण्डी ।।१७||
आमन्त्र्ये ।२।२।३२॥ आमन्त्र्यार्थवृत्तेर्नाम्नः प्रथमा स्यात् । हे देव ! । [आमन्त्र्य इति किम् ? राजा भव J सं.] ||१८||
___ गौणात् समया-निकषा-हा-धिगन्तरा-ऽन्तरेणा-ऽति-येनतेनैर्द्वितीया ।२।२॥३३॥ ___ समयादिभिर्युक्ताद् गौणान्नाम्न एक-द्वि-बहौ यथासङ्ख्यममौ-शसिति द्वितीया स्यात् । समया ग्रामम् । निकषा गिरि नदी । हा ! मैत्रं व्याधिः । धिग् जाल्मम् । अन्तराऽन्तरेण वा निषधं नीलं च विदेहा: । अन्तरेण धर्मं सुखं न स्यात् । अतिवृद्धं कुरून् महद् बलम् । येन पश्चिमां गतः । तेन पश्चिमां नीतः ।।१९।।
कर्मणि ।२।२।४०॥ नाम्नः कर्मणि द्वितीया स्यात् । कटं करोति, रविं पश्यति, अजां नयति ग्रामम्, गां दोग्धि पय: ।।२०॥
क्रियाविशेषणात् ।२।२।४१॥ क्रियाया यद्विशेषणं तद्वाचिनो द्वितीया स्यात् । स्तोकं पचति । सुखं स्थाता ||२१||
काला-ऽध्वनोाप्तौ ।२।२।४२॥ व्याप्तिरत्यन्तसंयोग:, व्याप्तौ द्योत्यायां कालाध्ववाचिभ्यां द्वितीया स्यात् । मासं गुडधाना: कल्याणी अधीते वा । क्रोशं गिरिः कुटिला नदी अधीते वा । व्याप्ताविति किम् ? मासस्य मासे वा व्यहं गुडधानाः । क्रोशस्य क्रोशे वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org