SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ऽस्मृतौ [३।३।८८] इत्यात्मनेपदम् । आत्मन इति किम् ? दर्शयति रूपतर्कं रूपम् ।।८।। नाथः ।२।२।१०॥ आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात् । सर्पिषो नाथते, सर्पियते । आत्मन इत्येव, पुत्रमुपनाथति पाठाय ।।९।। स्मृत्यर्थ-दयेशः ।२।२।११॥ स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति, मातरं स्मरति ; मातुः स्मर्यते, माता स्मर्यते ; सर्पिषो दयते, सर्पिर्दयते ; लोकानामीष्टे, लोकानीष्टे ।।१०।। कृगः प्रतियत्ने ।२।२।१२॥ पुनर्यत्न: प्रतियत्नः, तद्वृत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोदकस्यैधोदकं वोपस्कुरुते ।।११।। रुजार्थस्याऽज्वरि-सन्तापेर्भावे कर्तरि ।२।२।१३॥ रुजा पीडा, तदर्थस्य ज्वरि-सन्तापिवर्जस्य धातोर्व्याप्यं कर्म वा स्यात्, भावश्चेद्रुजायाः कर्ता । चौरस्य चौरं वा रुजति रोग: । अज्वरि-सन्तापेरिति किम् ? आद्यूनं ज्वरयति सन्तापयति वा । भाव इति किम् ? मैत्रं रुजति श्लेष्मा ।।१२।। . साधकतमं करणम् ।२२२॥२४॥ क्रियायां प्रकृष्टोपकारकं करणं स्यात् । दानेन भोगानाप्नोति ॥१३॥ कर्माभिप्रेयः संप्रदानम् ।२।२।२५॥ कर्मणा व्याप्येन क्रियया वा यमभिप्रेयते स सम्प्रदानं स्यात् । देवाय बलिं दत्ते, राज्ञे कार्यमाचष्टे ।।१४।। अपायेऽवधिरपादानम् ।२।२।२९॥ अपाये विश्लेषे योऽवधिस्तद् अपादानं स्यात् । वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति, अधर्माज्जुगुप्सते विरमति वा, धर्मात् प्रमाद्यति, चौरेभ्यस्त्रायते, अध्ययनात् पराजयते, यवेभ्यो गां रक्षति, उपाध्यायादन्तर्धत्ते, शृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवति, वलभ्याः शत्रुञ्जयः षड् योजनानि, कार्त्तिक्या आग्रहायणी मासे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy