SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [द्वितीयाध्याये द्वितीय: पादः] क्रियाहेतुः कारकम् ।२।२।१॥ क्रियाया हेतुर्निमित्तं कर्नादि कारकं स्यात् । अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वादेः [कारकसंज्ञा न स्यात् ।।१।। स्वतन्त्रः कर्ता ।२।२।२॥ क्रियाहेतु: क्रियासिद्धौ स्वप्रधानो य: स कर्ता स्यात् । मैत्रेण कृतः ।।२।। कर्तुळप्यं कर्म ।२।२॥३॥ कर्ता क्रियया यद्विशेषेणाप्तुमिष्यते तत् कारकं व्याप्यं कर्म च स्यात् । तत् त्रेधा—निर्वर्त्य विकार्यं प्राप्यञ्च । कटं करोति, काष्ठं दहति, ग्रामं याति ।।३।। वाऽकर्मणामणिकर्ता णौ ।२।२॥४॥ अविवक्षितकर्मणां धातूनां णिग: प्राग् य: कर्ता स णिगि सति कर्म वा स्यात् । पचति चैत्रः, पाचयति चैत्रं चैत्रेण वा मैत्र: ॥४॥ नित्याकर्मणां तु गति-बोधा-ऽऽहारार्थ-शब्दकर्म-नित्याकर्मणामनीखाद्यदि-ह्वाशब्दाय-क्रन्दाम् ।२।२।५॥ इति सूत्रेण नित्यमेव कर्म, शाययति मैत्रं चैत्रः ॥५॥ भक्षेहिँसायाम् ।२।२॥६॥ भक्षेहिँसार्थस्यैवाणिक्कर्ता णौ कर्म स्यात् । भक्षयति सस्यं बलीवर्दान् मैत्रः । हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना । गति-बोधा-ऽऽहारार्थः [२।२।५] इति कर्मत्वे सिद्धे नियमार्थो योगः ॥६॥ ह-क्रोर्नवा ।२।२।८॥ ह-क्रोरणिकर्ता णौ कर्म वा स्यात् । विहारयति देशं गुरुं गुरुणा वा, आहारयत्योदनं बालं बालेन वा, कारयति कटं चैत्रं चैत्रेण वा ।।७।। दृश्यभिवदोरात्मने ।२।२।९॥ दृश्यभिवदोरात्मनेपदविषयेऽणिकर्ता णौ कर्म वा स्यात् । दर्शयते राजा भृत्यान् भृत्यैर्वा, अभिवादयते गुरुः शिष्यं शिष्येण वा । अणिक्कर्म-णिक्कर्तृकाण्णिगो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy