SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अवर्णादश्नो वाऽन्तुरी-ड्योः ।२।१११६॥ श्नावर्जादवर्णात् परस्यान्तुरुपान्त्यनो लुग् वा स्यात् ई-ड्योः । तुदती तुदन्ती कुले स्त्री वा । एवं भाती भान्ती । अवर्णादिति किम् ? अदती । [अ]श्न इति किम् ? लुनती ॥१०४।।। न श्य-शवः ।२।१११७॥ श्याच्छवश्व परस्यान्तुरी-यो: परयोरुपान्त्यनो लुग् न स्यात् । दीव्यन्ती । पचन्ती ॥१०५।। दिव औः सौ ।२।१।११८॥ दिव: सौ परे औ: स्यात् । द्यौः ॥१०६।। उः पदान्तेऽनूत् ।२।१।११९॥ पदान्तस्य दिव उ: स्यात्, अनूत् स तु दी? न स्यात् । धुभ्याम्, सुधु । पदान्त इति किम् ? दिवि । अनूदिति किम् ? धुभवति ।।१०७|| द्वितीयस्य प्रथमपाद: ।।२।१॥ १. श्री सिद्धहेमचन्द्रशब्दानुशासनस्य रहस्यवृत्तौ ‘अतृ शतृ क्वसु' इत्यादि प्रत्ययानां स्थाने 'अन्तृ शन्तृ क्वंसु' इत्यादय: प्रत्ययाः स्वीकृता: । अतस्तदनुसारेण सूत्राणि । सम्प्रति तु सिद्धहेमचन्द्रशब्दानुशासनसूत्रपाठे लघुवृत्तौ बृहद्वृत्तौ मध्यमवृत्तौ च 'अतृ शतृ क्वसु' इत्यादय एव प्रत्ययाः, अतस्तदनुसारीण्येव सूत्राणि । लघुवृत्तिसहितानि सूत्राणि ईदृशानि - अवर्णादश्नोऽन्तो वाऽतुरीङयोः ।२।११११५॥ श्नावर्जादवर्णात् परस्याऽतुः स्थानेऽन्तो वा स्यात्, ई-ङ्योः । तुदन्ती, तुदती कुले स्त्री वा । एवं भान्ती, भाती । अवर्णादिति किम् ? अदती । अश्न इति किम् ? लुनती ।।१०७॥ श्य-शवः ।२।१।११६॥ श्याच्छवश्च परस्याऽतुरीयोः परयोरन्त इत्यादेश: स्यात् । दीव्यन्ती, पचन्ती ॥१०८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy