SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ३९ यून: । मघोनी, मघोनः । डीस्याद्यघुट्स्वर इति किम् ? शौवनम्, यौवनम्, माघवनम् ॥९५॥ लुगातोऽनापः ।२।१।१०७॥ आपवर्जस्याऽऽतो डीस्याद्यघुट्स्वरे लुक् स्यात् । कीलालप: । हाहें देहि । अनाप इति किम् ? शाला: ।।९६।। अनोऽस्य ।२।१।१०८॥ ङीस्याद्यघुट्स्वरेऽनोऽस्य लुक् स्यात् । राज्ञी, राज्ञः ॥९७|| ई-डौ वा ।२।१।१०९॥ ईकारे डौ च परेऽनोऽस्य लुग् वा स्यात् । साम्नी, सामनी । राज्ञि, राजनि ।।९८|| न व-मन्तसंयोगात् ।२।१।१११॥ वान्तान्मान्ताच्च संयोगात् परस्याऽनोऽस्य लुग् न स्यात् । पर्वणा, चर्मणी ।।९९|| हनो ह्रो घ्न् ।२।११११२॥ हन्तेर्हो घ्न् स्यात् । भ्रूणघ्नी, घ्नन्ति । ह्र इति किम् ? वृत्रहणौ ॥१००|| लुगस्यादेत्यपदे ।२।१।११३॥ अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । सः, पचन्ति, पचे । अपद इति किम् ? दण्डाग्रम ॥१०१।। डित्यन्त्यस्वरादेः ।२।१।११४॥ स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे लुक् स्यात् । मुनौ, साधौ, पितुः ॥१०२।। अंघुट्युपान्त्यनोऽक्रुञ्चुचु(ञ्चञ्चु)दितः ।२।११११५॥ क्रुञ्च्- [अञ्च्]-उदिवर्जस्य उपान्त्यनस्य लुक् स्यात्, न तु घुटि । महतः । श्रेयः । अक्रुञ्चु(ञ्च)ञ्चुदित इति किम् ? क्रुञ्चा । साध्वञ्चा । सुकन्भ्याम् ॥१०३।। १. इदं सूत्रं श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य सम्प्रति प्रचलिते सूत्रपाठे न विद्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy