SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं नाऽऽमत्रये ।२।११९२॥ आमन्त्रयार्थस्य नाम्नो नस्य लुक् न स्यात् । हे राजन् ! ।।८८।। क्लीबे वा ।२।११९३॥ आमन्त्रयार्थस्य नाम्नः क्लीबे नस्य लुग् वा स्यात् । हे दाम !, हे दामन् ! ।।८९॥ मावर्णान्तोपान्तापञ्चमवर्गान् मन्तोर्मो वः ।।१९४॥ मावी प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच्च नाम्नः परस्य मन्तोर्मो व् स्यात् । किंवान्, शमीवान्, वृक्षवान्, मालावान्, अहर्वान्, भास्वान्, मरुत्वान् ।।९०॥ ___ य-स्वरे पादः पदणि-क्य-घुटि ।२।१।१०२॥ णि-क्य-घुट्वले यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्रपद्य: । द्विपद: पश्य । पादयते: विपि पाद्, पदी कुले । य-स्वरे इति किम् ? द्विपाद्भ्याम् । अणि-क्य-घुटीति किम् ? पादयति । व्याघ्रपाद्यति । द्विपादौ ।।९१।। उदच उदीच् ।२।१।१०३॥ अणिक्यघुटि यस्वरे उदच उदीच् स्यात् । उदीच्यः, उदीची। अणिक्यघुटीत्येव, उदयति, उदच्यति, उदञ्च: । उदच इति किम् ? नि मा भूत्, उदञ्चा, उदञ्चे ||९२॥ ___ अच्च् प्राग् दीर्घश्च ।२।१११०४॥ अणिक्यघुटि यस्वरादौ प्रत्ययेऽच् च स्यात्, प्राक् स्वरश्च दीर्घः । प्राच्यः, दधीचा । अणिक्यघुटीत्येव, दध्ययति, दध्यच्यति, दध्यञ्चः । अचिति किम् ? नि मा भूत्, साध्वञ्चा ।।९३।।। कंसुष् मन्तौ च ।२।१।१०५॥ अणिक्यघुटि य-स्वरे मन्तौ च प्रत्यये कंसु उष् स्यात् । विदुष्यः, विदुषा, विदुष्मान् । अणिक्यघुटीत्येव, विद्वयति, विद्वस्यति, विद्वांसः ।।९४|| श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्वरे व उः ।२।१११०६॥ ङ्यां स्याद्यघुट्स्वरे च श्वनादीनां व उ: स्यात् । शुनी, शुन: । अतियूनी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy