________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
उन्मुट् । द्रोग्धा, द्रोढा । मित्रध्रुक्, मित्रध्रुट् । स्नोग्धा, स्नोढा । उत्स्नुक्, उत्स्नुट् । स्नेग्धा, स्नेढा । चेलस्निक्, चेलस्निट् ।।८०।।
नहाहोर्ध-तौ ।।१८५॥ नहेबूंस्थानाऽऽहश्च धातो) धुटि प्रत्यये पदान्ते च यथासङ्ख्यं ध-तौ स्याताम् । नद्धा । उपानद्भ्याम् । आत्थ ।।८१||
च-जः क-गम् ।२।१।८६॥ धुटि प्रत्यये पदान्ते च च-जोः क-गौ स्याताम् । वक्ता, वाक्, त्यक्ता, अर्द्धभाक् ।।८२।। यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिवाजः शः षः।२।१।८७॥ __यजादीनां धातूनां च-जो: शस्य च धुटि प्रत्यये पदान्ते च ष् स्यात् । यष्टा, देवेट् ; स्रष्टा, तीर्थसृट् ; मार्टा, कंसपरिमृट् ; राष्टिः, सम्राट् ; भ्राष्टिः, विभ्राट् ; भ्रष्टा, धानाभृट् ; व्रष्टा, मूलवृट् ; परिव्राट् ; लेष्टा, प्रष्टा, शब्दप्राट् । यजादिसाहचर्याच्छोऽपि धातोरेव स्यात्, इह मा भूत्, निज्भ्याम् । मास-निशा-ऽऽसनस्य शसा-ऽऽदौ लुग्वा [२।१।१००] इति अन्तस्य लुक् । चज इत्येव, वृक्षवृश्चमाचष्टे वृक्षव् ।।८३।।
संयोगस्यादौ स्कोर्लक् ।२।११८८॥ धुट्-पदान्ते संयोगादिस्थयो: स्कोर्लुक् स्यात् । लग्नः, साधुलक्, वृक्ण:, मूलवृट्, तष्टः, काष्ठतट् ।।८४||
पदस्य ।२।१।८९॥ पदस्य संयोगान्तस्य लुक् स्यात् । पुमान्, पुंभिः, महान् । पदस्येति किम् ? स्कन्त्वा ।।८५||
रात् सः ।२।११९०॥ पदस्य संयोगान्तस्य यो रस्तत: परस्य सस्यैव लुक् स्यात् । चिकी:, कटचिकी: । स एवेति किम् ? ऊर्छ, न्यमा ।।८६।।
नाम्नो नोऽनह्नः ।२।१९१॥ पदस्यान्ते नाम्नो नस्य लुक् स्यात्, स चेदह्रो न स्यात् । राजा, राजपुरुषः । अनह्न इति किम् ? अहरेति ।।८७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org