SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं धागस्त-थोश्च ।२।११७८॥ - धागश्चतुर्थान्तस्य दादेरादेर्दस्य त-थो: स्-ध्वोश्च प्रत्यययोः परयोश्चतुर्थः स्यात् । धत्तः । धत्थ: । धत्से । धद्ध्वे । त-थोश्च इति किम् ? दध्वः । चतुर्थान्तस्य इत्येव, दधाति ।।७४॥ अधश्चतुर्थात् त-थोर्धः ।२।११७९॥ चतुर्थात् परयोर्धारूपवर्जाद्धातोर्विहितयोस्त-थोर्धः स्यात् । अदुग्ध । अदुग्धाः । अलब्ध । अलब्धाः । अध इति किम् ? धत्तः । धत्थ: । विहितविशेषणं किम् ? ज्ञानभुत्त्वम् ।।७५।। र्नाम्यन्तात् परोक्षा-ऽद्यतन्याशिषो धो ढः ।२।११८०॥ रान्तानाम्यन्ताच्च धातोः परासां परोक्षा-ऽद्यतन्याशिषां धो ढ: स्यात् । अतीर्द्धम् । तीर्षीढ्वम् । तुष्टुढ्वे । अदिट्वम् । चेषीढ्वम् । र्नाम्यन्तात् इति किम् ? अपग्ध्वम् । आसिध्वम् ।।७६।। हा-न्तस्थाज्ञीड्भ्यां वा ।२।११८१॥ हादन्तस्थायाश्च पराभेरिटश्च परासां परोक्षाद्यतन्याशिषां धो द् वा स्यात् । अग्राहिढ्वम्, अग्राहिध्वम् । ग्राहिषीढ्वम्, ग्राहिषीध्वम् । अनायित्वम्, अनायिध्वम् । नायिषीढ्वम्, नायिषीध्वम् । अकारिढ्वम्, अकारिध्वम् । अलाविढ्वम्, अलाविध्वम् । जगृहिढ्वे, जगृहिध्वे । आयिढ्वम्, आयिध्वम् । हा-ऽन्तस्थाद् इति किम् ? घानिषीध्वम् । आसिषीध्वम् ।।७७|| हो धुट्-पदान्ते ।२।१।८२॥ धुटि प्रत्यये पदान्ते च हो ढ् स्यात् । लेढा । मधुलिट् । गुडलिण्मान् । धुट-पदान्ते इति किम् ? मधुलिहौ ।।७८।। भ्वादेर्दादेर्घः ।२।११८३॥ भ्वादेर्धातोर्यो दादिरवयवः, तस्य हो धुटि प्रत्यये पदान्ते च घ् स्यात् । दोग्धा । धोक्ष्यति । अधोक् । गोधुक् । भ्वादेरिति किम् ? दामलिहमिच्छति दामलिट् ।।७९॥ मुह-द्रुह-ष्णुह-ष्णिहो वा ।२।११८४॥ एषां हो धुटि प्रत्यये पदान्ते च घ् वा स्यात् । मोग्धा, मोढा । उन्मुक्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy