________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
मा भूत्, विद्वान् ।।६४|| __ ऋत्विज्-दिश्-दृश्-स्पृश्-स्रज्-दधृषुष्णिहो गः ।२।१६९॥
एषां पदान्तस्थानां ग् स्यात् । ऋत्विग् । दिग् । दृग् । अन्यादृग् । घृतस्पृग् । स्रग् । दधृग् । उष्णिग् ।।६५।।
नशो वा ।२।११७०॥ नश: पदान्ते ग् वा स्यात् । जीवनग्, जीवनड् ।।६६।।
युजञ्च-क्रुञ्चो नो ङः ।२।११७१॥ एषां नस्य पदान्ते ङ् स्यात् । युङ् । प्राङ् । क्रुङ् ।।६७||
सो रुः ।२।०७२॥ पदान्ते सो रु: स्यात् । आशी: । वायुः ॥६८।।
सजुषः ।२।११७३॥ पदान्ते सजुषो रुः स्यात् । सजू: । सर्वत् ।।६९॥
अहनः ।२।११७४॥ अह्नः पदान्ते रु: स्यात् । हे दीर्घाहो निदाघ ! । दीर्घाहा निदाघः ॥७०।।
- रो लुप्यरि।२।१७५॥ अरेफे परे पदान्ते अह्नो लुपि सत्याम् र स्यात् । अहरधीते । अहर्दत्ते । लुपि इति किम् ? हे दीर्घाहो ! ऽत्र । अरि इति किम् ? अहोरूपम् ।।७१।।
धुटस्तृतीयः ।२।११७६॥ पदान्ते धुटां तृतीय: स्यात् । वाग् । अभिः ।।७२||
___ ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये ।२।११७७॥
ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपशब्दावयवस्यादेश्चतुर्थः स्यात्, पदान्ते सादौ ध्वादौ च प्रत्यये । पर्णघुट् । तुण्डिभमाचक्षाण: तुण्ढिप् । एवं गर्द्धप् । धर्मभुत् । निघोक्ष्यते । न्यघूढ्वम् । धोक्ष्यते । अधुग्ध्वम् । भोत्स्यते, अभुद्ध्वम् । ग-ड-द-बादेरिति किम् ? अजञ्जप् । एकस्वरस्य इति किम् ? दामलिट् ।।७३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org