________________
३४
किम् ? प्रतिभुवे ॥ ५६ ॥
स्वोपज्ञरहस्यवृत्तिविभूषितं
णषमसत् परे स्यादिविधौ च । २।१६० ॥
-
इतः सूत्रादारभ्य यत् परं कार्यं विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूर्वस्मिन्नपि कर्त्तव्ये णत्वं षत्वं चाऽसद् असिद्धं स्यात्, एतत्सूत्रनिर्दिष्टयोश्च ण षयोः परे षेोऽसन् । पूष्णः । तक्ष्णः । पिपठीः । अर्वाणौ । असत्परे इत्यधिकारो रात्सः [२।१।९०] इति यावत् । स्यादिविधौ च इति तु मावर्णान्तेभ्यः [२।१।९८] प्राक् ॥ ५७ ॥
ष - ढोः कस्सि | २|१॥६२॥
से परे ष-ढोः कः स्यात् । पेक्ष्यति, क्ष्यति ॥५८॥ भ्वादेर्नामिनो दीर्घोर्वोर्व्यञ्जने | २|१|६३ ॥
भ्वादेर्धातोर्यौ र वौ तयोः परयोस्तस्यैव नामिनो दीर्घः स्याद् व्यञ्जने । हूर्च्छा | आस्तीर्णम् । दीव्यति । भ्वादेरिति किम् ? कुर्कुरीयति । दिव्यति ॥५९॥पदान्ते | २|१|६४॥
पदान्तस्थयोर्ध्वादेर्वोः परयोभ्वदर्नामिनो दीर्घः स्यात् । गीः । गीरर्थः । पदान्त इति किम् ? गिरः । लुवः ||६०||
न यि तद्धिते | २|१|६५॥
यादौ तद्धिते परे यौ र वौ तयोः परयोर्नामिनो दीर्घो न स्यात् । धुर्यः । यि इति किम् ? गीर्वत् । तद्धित इति किम् ? गीर्यति । गीर्यते ॥ ६१॥ कुरु-च्छुरः | २|१|६६॥
Jain Education International
कुरु-च्छुरोर्नामिनो रे परे दीर्घो न स्यात् । कुर्यात् । छुर्यात् । कुरु इत्युकारः किम् ? कुरत् शब्दे [ हैमधा० १३९१] कूर्यात् ||६२|| मोनो म्वोश्च |२| ११६७॥
मन्तस्य धातोरन्तस्य पदान्तस्य वोश्च परयोर्नः स्यात् । प्रशान् । प्रशान्भ्याम् । जङ्गन्मि । जङ्गन्वः ||६३||
स्रंस्-ध्वंस्-क्वंस्सनडुहो दः | २|१|६८ ||
स्रंस्-ध्वंसोः कंस्प्रत्ययान्तस्य च सन्तस्य अनडुहश्च पदान्तस्य दः स्यात्। उखास्रद्, पर्णध्वद्, विद्वत् कुलम् । स्वनडुद् । क्वंस्स इति द्विसकारपाठादिह
For Private & Personal Use Only
www.jainelibrary.org