SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । इणो धातो: स्वरादौ प्रत्यये परे इय् स्यात् । योऽपवादः । ईयतुः, ईयु: ॥४८॥ संयोगात् ।।१५२॥ धातोरिवर्णोवर्णयोः संयोगात् परयोः स्वरादौ प्रत्यये परे इयुवौ स्याताम् । यवक्रियौ । कटप्रुवौ । शिश्रियु: ।।४९।। भ्रू-श्नोः ।२।१॥५३॥ भ्रू-श्नोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उव् स्यात् । ध्रुवौ । आप्नुवन्ति । संयोगात् इत्येव, चिन्वन्ति ॥५०॥ स्त्रियाः ।।११५४॥ स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । स्त्रियौ । अतिस्त्रियौ ॥५१|| वाऽम्शसि ।२।११५५॥ स्त्रिया इवर्णस्याऽम्-शसोः परयोरिय् वा स्यात् । स्त्रियम्, स्त्रीम् । स्त्रियः, स्त्री: ॥५२॥ योऽनेकस्वरस्य ।२।१॥५६॥ अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे य: स्यात् । चिच्युः । निन्युः । पतिमिच्छति पत्यि ।।५३।। स्यादौ वः ।२।११५७॥ अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे व: स्यात् । वसुमिच्छन्तौ वस्वौ । स्यादौ इति किम् ? लुलुवुः ।।५४।। . किवृत्तेरसुधियस्तौ ।२।११५८॥ किबन्तेनैव या वृत्तिः समासः, तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तौ ‘य व' इत्येतौ स्याताम् । उन्न्यौ । ग्रामण्यौ । सुल्व: । खलप्वः । क्विबिति किम् ? परमौ नियौ परमनियौ । वृत्तेरिति किम् ? नियौ कुलस्य । असुधिय इति किम् ? सुधियः ।।५५|| हन्पुनर्वर्षाकारैर्भुवः ।२।१।५९॥ दृनादिभिः सह या क्विब्वृत्तिः, तत्सम्बन्धिन एव भुवो धातोरुवर्णस्य स्वरादौ स्यादौ परे व: स्यात् । दृन्भ्वौ । पुनवौं । वर्षाभ्वः । कारभ्व: । दृनादिभिरिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy